Mahabharata

Shanti Parva, Adhyaya 223

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 223, Verse 1

प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता

गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 2

अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ

उग्रसेनस्य संवादं नारदे केशवस्य च

Mahabharata

Shanti Parva, Adhyaya 223, Verse 3

पश्य संकल्पते लोको नारदस्य प्रकीर्तने

मन्ये स गुणसंपन्नो ब्रूहि तन्मम पृच्छतः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 4

कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः

नारदस्य गुणान्साधून्संक्षेपेण नराधिप

Mahabharata

Shanti Parva, Adhyaya 223, Verse 5

न चारित्रनिमित्तोऽस्याहंकारो देहपातनः

अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 6

तपस्वी नारदो बाढं वाचि नास्य व्यतिक्रमः

कामाद्वा यदि वा लोभात्तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 7

अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः

ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 8

तेजसा यशसा बुद्ध्या नयेन विनयेन च

जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 9

सुखशीलः सुसंभोगः सुभोज्यः स्वादरः शुचिः

सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 10

कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते

न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 11

वेदश्रुतिभिराख्यानैरर्थानभिजिगीषते

तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 12

समत्वाद्धि प्रियो नास्ति नाप्रियश्च कथंचन

मनोनुकूलवादी च तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 13

बहुश्रुतश्चैत्रकथः पण्डितोऽनलसोऽशठः

अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 14

नार्थे न धर्मे कामे वा भूतपूर्वोऽस्य विग्रहः

दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 15

दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान्

वीतसंमोहदोषश्च तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 16

असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते

अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 17

समाधिर्नास्य मानार्थे नात्मानं स्तौति कर्हिचित्

अनीर्ष्युर्दृढसंभाषस्तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 18

लोकस्य विविधं वृत्तं प्रकृतेश्चाप्यकुत्सयन्

संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 19

नासूयत्यागमं कंचित्स्वं तपो नोपजीवति

अवन्ध्यकालो वश्यात्मा तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 20

कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः

नियमस्थोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 21

सापत्रपश्च युक्तश्च सुनेयः श्रेयसे परैः

अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 22

न हृष्यत्यर्थलाभेषु नालाभेषु व्यथत्यपि

स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः

Mahabharata

Shanti Parva, Adhyaya 223, Verse 23

तं सर्वगुणसंपन्नं दक्षं शुचिमकातरम्

कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति