Mahabharata

Shanti Parva, Adhyaya 222

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 222, Verse 1

किंशीलः किंसमाचारः किंविद्यः किंपरायणः

प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्

Mahabharata

Shanti Parva, Adhyaya 222, Verse 2

मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः

प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्

Mahabharata

Shanti Parva, Adhyaya 222, Verse 3

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

जैगीषव्यस्य संवादमसितस्य च भारत

Mahabharata

Shanti Parva, Adhyaya 222, Verse 4

जैगीषव्यं महाप्राज्ञं धर्माणामागतागमम्

अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 222, Verse 5

न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसि

का ते प्रज्ञा कुतश्चैषा किं चैतस्याः परायणम्

Mahabharata

Shanti Parva, Adhyaya 222, Verse 6

इति तेनानुयुक्तः स तमुवाच महातपाः

महद्वाक्यमसंदिग्धं पुष्कलार्थपदं शुचि

Mahabharata

Shanti Parva, Adhyaya 222, Verse 7

या गतिर्या परा निष्ठा या शान्तिः पुण्यकर्मणाम्

तां तेऽहं संप्रवक्ष्यामि यन्मां पृच्छसि वै द्विज

Mahabharata

Shanti Parva, Adhyaya 222, Verse 8

निन्दत्सु च समो नित्यं प्रशंसत्सु च देवल

निह्नुवन्ति च ये तेषां समयं सुकृतं च ये

Mahabharata

Shanti Parva, Adhyaya 222, Verse 9

उक्ताश्च न विवक्षन्ति वक्तारमहिते रतम्

प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः

Mahabharata

Shanti Parva, Adhyaya 222, Verse 10

नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते

न चातीतानि शोचन्ति न चैनान्प्रतिजानते

Mahabharata

Shanti Parva, Adhyaya 222, Verse 11

संप्राप्तानां च पूज्यानां कामादर्थेषु देवल

यथोपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः

Mahabharata

Shanti Parva, Adhyaya 222, Verse 12

पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः

मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित्

Mahabharata

Shanti Parva, Adhyaya 222, Verse 13

अनीर्षवो न चान्योन्यं विहिंसन्ति कदाचन

न च जातूपतप्यन्ते धीराः परसमृद्धिभिः

Mahabharata

Shanti Parva, Adhyaya 222, Verse 14

निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये

न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन

Mahabharata

Shanti Parva, Adhyaya 222, Verse 15

सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः

न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्यचित्

विमुच्य हृदयग्रन्थींश्चङ्क्रम्यन्ते यथासुखम्

Mahabharata

Shanti Parva, Adhyaya 222, Verse 16

न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः

अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित्

Mahabharata

Shanti Parva, Adhyaya 222, Verse 17

य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा

धर्ममेवानुवर्तन्ते धर्मज्ञा द्विजसत्तम

ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च

Mahabharata

Shanti Parva, Adhyaya 222, Verse 18

आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम्

निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना

Mahabharata

Shanti Parva, Adhyaya 222, Verse 19

यद्यदिच्छन्ति तन्मार्गमभिगच्छन्ति मानवाः

न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः

Mahabharata

Shanti Parva, Adhyaya 222, Verse 20

अमृतस्येव संतृप्येदवमानस्य तत्त्ववित्

विषस्येवोद्विजेन्नित्यं संमानस्य विचक्षणः

Mahabharata

Shanti Parva, Adhyaya 222, Verse 21

अवज्ञातः सुखं शेते इह चामुत्र चोभयोः

विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बध्यते

Mahabharata

Shanti Parva, Adhyaya 222, Verse 22

परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः

एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः

Mahabharata

Shanti Parva, Adhyaya 222, Verse 23

सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः

प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्

Mahabharata

Shanti Parva, Adhyaya 222, Verse 24

नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः

पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम्