Shanti Parva, Adhyaya 221, Verse 1
पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः
पराभविष्यतश्चैव त्वं मे ब्रूहि पितामह
Containing 94 sacred Sanskrit shlokas with multi-author commentaries and translations.
पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः
पराभविष्यतश्चैव त्वं मे ब्रूहि पितामह
मन एव मनुष्यस्य पूर्वरूपाणि शंसति
भविष्यतश्च भद्रं ते तथैव नभविष्यतः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर
महतस्तपसो व्युष्ट्या पश्यँल्लोकौ परावरौ
सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः
ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः
विचचार यथाकामं त्रिषु लोकेषु नारदः
कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि
ध्रुवद्वारभवां गङ्गां जगामावततार च
सहस्रनयनश्चापि वज्री शम्बरपाकहा
तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह
तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतुः
नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम्
पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः
चक्रतुस्तौ कथाशीलौ शुचिसंहृष्टमानसौ
पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ
अथ भास्करमुद्यन्तं रश्मिजालपुरस्कृतम्
पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः
अभितस्तूदयन्तं तमर्कमर्कमिवापरम्
आकाशे ददृशे ज्योतिरुद्यतार्चिःसमप्रभम्
तयोः समीपं संप्राप्तं प्रत्यदृश्यत भारत
तत्सुपर्णार्कचरितमास्थितं वैष्णवं पदम्
भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत्
दिव्याभिरूपशोभाभिरप्सरोभिः पुरस्कृताम्
बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम्
नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम्
श्रियं ददृशतुः पद्मां साक्षात्पद्मतलस्थिताम्
सावरुह्य विमानाग्रादङ्गनानामनुत्तमा
अभ्यगच्छत्त्रिलोकेशं शक्रं चर्षिं च नारदम्
नारदानुगतः साक्षान्मघवांस्तामुपागमत्
कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना
चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित्
देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह
का त्वं केन च कार्येण संप्राप्ता चारुहासिनि
कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे
पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः
ममात्मभावमिच्छन्तो यतन्ते परमात्मना
साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते
भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी
अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन
अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः
अहं धृतिरहं सिद्धिरहं त्विड्भूतिरेव च
अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः
राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च
निवासे धर्मशीलानां विषयेषु पुरेषु च
जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि
निवसामि मनुष्येन्द्रे सदैव बलसूदन
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि
प्रश्रिते दानशीले च सदैव निवसाम्यहम्
असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धना
विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम्
कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने
दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान्
स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च
स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम्
दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम्
विप्राणामतिथीनां च तेषां नित्यमवर्तत
सुसंमृष्टगृहाश्चासञ्जितस्त्रीका हुताग्नयः
गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः