Shanti Parva, Adhyaya 220, Verse 1
मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि
बन्धुनाशे महीपाल राज्यनाशेऽपि वा पुनः
Containing 118 sacred Sanskrit shlokas with multi-author commentaries and translations.
मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि
बन्धुनाशे महीपाल राज्यनाशेऽपि वा पुनः
त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ
एतद्भवन्तं पृच्छामि तन्मे वक्तुमिहार्हसि
पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन च
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते
आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम्
यस्य राज्ञो नरास्तात सात्त्विकीं वृत्तिमास्थिताः
तस्य स्थैर्यं च धैर्यं च व्यवसायश्च कर्मसु
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
बलिवासवसंवादं पुनरेव युधिष्ठिर
वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ
इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते
समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयंभुवि
रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः
गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः
चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम्
आरुह्यैरावतं शक्रस्त्रैलोक्यमनुसंययौ
स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे
बलिं वैरोचनिं वज्री ददर्शोपससर्प च
तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम्
सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे
दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम्
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः
दैत्य न व्यथसे शौर्यादथ वा वृद्धसेवया
तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम्
शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात्
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि
श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान्
हृतस्वबलराज्यस्त्वं ब्रूहि कस्मान्न शोचसि
ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि
बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः
हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि
भ्रष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम्
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत्
एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम्
श्रुत्वा सुखमसंभ्रान्तो बलिर्वैरोचनोऽब्रवीत्
निगृहीते मयि भृशं शक्र किं कत्थितेन ते
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर
अशक्तः पूर्वमासीस्त्वं कथंचिच्छक्ततां गतः
कस्त्वदन्य इमा वाचः सुक्रूरा वक्तुमर्हति
यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम्
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः
अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः
एकः प्राप्नोति विजयमेकश्चैव पराभवम्
मा च ते भूत्स्वभावोऽयं मया दैवतपुंगव
ईश्वरः सर्वभूतानां विक्रमेण जितो बलात्
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम्
यत्त्वमेवंगतो वज्रिन्यद्वाप्येवंगता वयम्
अहमासं यथाद्य त्वं भविता त्वं यथा वयम्
मावमंस्था मया कर्म दुष्कृतं कृतमित्युत
सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा
कालः काले नयति मां त्वां च कालो नयत्ययम्
तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम्
न मातृपितृशुश्रूषा न च दैवतपूजनम्
नान्यो गुणसमाचारः पुरुषस्य सुखावहः