Adi Parva, Adhyaya 222, Verse 1
अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम्
क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम्
क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः
न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन
अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः
संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम्
मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम्
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते
चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान्
अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात्
संचरन्तं समादाय जहाराखुं बिलाद्बली
तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम्
आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात्
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः
यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा
तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम्
श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः
न विद्म वै वयं मातर्हृतमाखुमितः पुरा
अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम्
अहं हि तं प्रजानामि हृतं श्येनेन मूषकम्
अत एव भयं नास्ति क्रियतां वचनं मम
न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत्
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत्
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम्
पीड्यमाना भरस्यस्मान्का सती के वयं तव
तरुणी दर्शनीयासि समर्था भर्तुरेषणे
अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान्
वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान्
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे
जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम्
ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः
यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः
ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा
जरितारिस्ततो वाचं श्रावयामास पावकम्