Mahabharata

Shanti Parva, Adhyaya 219

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 219, Verse 1

अत्रैवोदाहरन्तीममितिहासं पुरातनम्

शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 219, Verse 2

श्रिया विहीनमासीनमक्षोभ्यमिव सागरम्

भवाभवज्ञं भूतानामित्युवाच पुरंदरः

Mahabharata

Shanti Parva, Adhyaya 219, Verse 3

बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः

श्रिया विहीनो नमुचे शोचस्याहो न शोचसि

Mahabharata

Shanti Parva, Adhyaya 219, Verse 4

अनवाप्यं च शोकेन शरीरं चोपतप्यते

अमित्राश्च प्रहृष्यन्ति नास्ति शोके सहायता

Mahabharata

Shanti Parva, Adhyaya 219, Verse 5

तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्

संतापाद्भ्रश्यते रूपं धर्मश्चैव सुरेश्वर

Mahabharata

Shanti Parva, Adhyaya 219, Verse 6

विनीय खलु तद्दुःखमागतं वैमनस्यजम्

ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता

Mahabharata

Shanti Parva, Adhyaya 219, Verse 7

यथा यथा हि पुरुषः कल्याणे कुरुते मनः

तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशयः

Mahabharata

Shanti Parva, Adhyaya 219, Verse 8

एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता

तेनानुशिष्टः प्रवणादिवोदकं; यथा नियुक्तोऽस्मि तथा वहामि

Mahabharata

Shanti Parva, Adhyaya 219, Verse 9

भावाभावावभिजानन्गरीयो; जानामि श्रेयो न तु तत्करोमि

आशाः सुशर्म्याः सुहृदां सुकुर्व;न्यथा नियुक्तोऽस्मि तथा वहामि

Mahabharata

Shanti Parva, Adhyaya 219, Verse 10

यथा यथास्य प्राप्तव्यं प्राप्नोत्येव तथा तथा

भवितव्यं यथा यच्च भवत्येव तथा तथा

Mahabharata

Shanti Parva, Adhyaya 219, Verse 11

यत्र यत्रैव संयुङ्क्ते धाता गर्भं पुनः पुनः

तत्र तत्रैव वसति न यत्र स्वयमिच्छति

Mahabharata

Shanti Parva, Adhyaya 219, Verse 12

भावो योऽयमनुप्राप्तो भवितव्यमिदं मम

इति यस्य सदा भावो न स मुह्येत्कदाचन

Mahabharata

Shanti Parva, Adhyaya 219, Verse 13

पर्यायैर्हन्यमानानामभियोक्ता न विद्यते

दुःखमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते

Mahabharata

Shanti Parva, Adhyaya 219, Verse 14

ऋषींश्च देवांश्च महासुरांश्च; त्रैविद्यवृद्धांश्च वने मुनींश्च

कान्नापदो नोपनमन्ति लोके; परावरज्ञास्तु न संभ्रमन्ति

Mahabharata

Shanti Parva, Adhyaya 219, Verse 15

न पण्डितः क्रुध्यति नापि सज्जते; न चापि संसीदति न प्रहृष्यति

न चार्थकृच्छ्रव्यसनेषु शोचति; स्थितः प्रकृत्या हिमवानिवाचलः

Mahabharata

Shanti Parva, Adhyaya 219, Verse 16

यमर्थसिद्धिः परमा न हर्षये;त्तथैव काले व्यसनं न मोहयेत्

सुखं च दुःखं च तथैव मध्यमं; निषेवते यः स धुरंधरो नरः

Mahabharata

Shanti Parva, Adhyaya 219, Verse 17

यां यामवस्थां पुरुषोऽधिगच्छे;त्तस्यां रमेतापरितप्यमानः

एवं प्रवृद्धं प्रणुदेन्मनोजं; संतापमायासकरं शरीरात्

Mahabharata

Shanti Parva, Adhyaya 219, Verse 18

तत्सदः स परिषत्सभासदः; प्राप्य यो न कुरुते सभाभयम्

धर्मतत्त्वमवगाह्य बुद्धिमा;न्योऽभ्युपैति स पुमान्धुरंधरः

Mahabharata

Shanti Parva, Adhyaya 219, Verse 19

प्राज्ञस्य कर्माणि दुरन्वयानि; न वै प्राज्ञो मुह्यति मोहकाले

स्थानाच्च्युतश्चेन्न मुमोह गौतम;स्तावत्कृच्छ्रामापदं प्राप्य वृद्धः

Mahabharata

Shanti Parva, Adhyaya 219, Verse 20

न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा

अलभ्यं लभते मर्त्यस्तत्र का परिदेवना

Mahabharata

Shanti Parva, Adhyaya 219, Verse 21

यदेवमनुजातस्य धातारो विदधुः पुरा

तदेवानुभविष्यामि किं मे मृत्युः करिष्यति

Mahabharata

Shanti Parva, Adhyaya 219, Verse 22

लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति

प्राप्तव्यान्येव प्राप्नोति दुःखानि च सुखानि च

Mahabharata

Shanti Parva, Adhyaya 219, Verse 23

एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः

कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः