Mahabharata

Shanti Parva, Adhyaya 218

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 218, Verse 1

शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः

स्वरूपिणीं शरीराद्धि तदा निष्क्रामतीं श्रियम्

Mahabharata

Shanti Parva, Adhyaya 218, Verse 2

तां दीप्तां प्रभया दृष्ट्वा भगवान्पाकशासनः

विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः

Mahabharata

Shanti Parva, Adhyaya 218, Verse 3

बले केयमपक्रान्ता रोचमाना शिखण्डिनी

त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा

Mahabharata

Shanti Parva, Adhyaya 218, Verse 4

न हीमामासुरीं वेद्मि न दैवीं न च मानुषीम्

त्वमेवैनां पृच्छ मा वा यथेष्टं कुरु वासव

Mahabharata

Shanti Parva, Adhyaya 218, Verse 5

का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी

अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते

Mahabharata

Shanti Parva, Adhyaya 218, Verse 6

का त्वं तिष्ठसि मायेव दीप्यमाना स्वतेजसा

हित्वा दैत्येश्वरं सुभ्रु तन्ममाचक्ष्व तत्त्वतः

Mahabharata

Shanti Parva, Adhyaya 218, Verse 7

न मा विरोचनो वेद न मा वैरोचनो बलिः

आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः

Mahabharata

Shanti Parva, Adhyaya 218, Verse 8

भूतिर्लक्ष्मीति मामाहुः श्रीरित्येवं च वासव

त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः

Mahabharata

Shanti Parva, Adhyaya 218, Verse 9

किमिदं त्वं मम कृते उताहो बलिनः कृते

दुःसहे विजहास्येनं चिरसंवासिनी सती

Mahabharata

Shanti Parva, Adhyaya 218, Verse 10

न धाता न विधाता मां विदधाति कथंचन

कालस्तु शक्र पर्यायान्मैनं शक्रावमन्यथाः

Mahabharata

Shanti Parva, Adhyaya 218, Verse 11

कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि

कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते

Mahabharata

Shanti Parva, Adhyaya 218, Verse 12

सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि

पराक्रमे च धर्मे च पराचीनस्ततो बलिः

Mahabharata

Shanti Parva, Adhyaya 218, Verse 13

ब्रह्मण्योऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः

अभ्यसूयद्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्घृतम्

Mahabharata

Shanti Parva, Adhyaya 218, Verse 14

यज्ञशीलः पुरा भूत्वा मामेव यजतेत्ययम्

प्रोवाच लोकान्मूढात्मा कालेनोपनिपीडितः

Mahabharata

Shanti Parva, Adhyaya 218, Verse 15

अपाकृता ततः शक्र त्वयि वत्स्यामि वासव

अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च

Mahabharata

Shanti Parva, Adhyaya 218, Verse 16

अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान्

यस्त्वामेको विषहितुं शक्नुयात्कमलालये

Mahabharata

Shanti Parva, Adhyaya 218, Verse 17

नैव देवो न गन्धर्वो नासुरो न च राक्षसः

यो मामेको विषहितुं शक्तः कश्चित्पुरंदर

Mahabharata

Shanti Parva, Adhyaya 218, Verse 18

तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे

तत्करिष्यामि ते वाक्यमृतं त्वं वक्तुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 218, Verse 19

स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत्

विधिना वेददृष्टेन चतुर्धा विभजस्व माम्

Mahabharata

Shanti Parva, Adhyaya 218, Verse 20

अहं वै त्वा निधास्यामि यथाशक्ति यथाबलम्

न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके

Mahabharata

Shanti Parva, Adhyaya 218, Verse 21

भूमिरेव मनुष्येषु धारणी भूतभाविनी

सा ते पादं तितिक्षेत समर्था हीति मे मतिः

Mahabharata

Shanti Parva, Adhyaya 218, Verse 22

एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः

द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु

Mahabharata

Shanti Parva, Adhyaya 218, Verse 23

आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः

तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम्

Mahabharata

Shanti Parva, Adhyaya 218, Verse 24

एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः

तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु

Mahabharata

Shanti Parva, Adhyaya 218, Verse 25

यस्मिन्देवाश्च यज्ञाश्च यस्मिन्वेदाः प्रतिष्ठिताः

तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति

Mahabharata

Shanti Parva, Adhyaya 218, Verse 26

एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः

चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु

Mahabharata

Shanti Parva, Adhyaya 218, Verse 27

ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः

ते ते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम्

Mahabharata

Shanti Parva, Adhyaya 218, Verse 28

एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः

एवं विनिहितां शक्र भूतेषु परिधत्स्व माम्

Mahabharata

Shanti Parva, Adhyaya 218, Verse 29

भूतानामिह वै यस्त्वा मया विनिहितां सतीम्

उपहन्यात्स मे द्विष्यात्तथा शृण्वन्तु मे वचः

Mahabharata

Shanti Parva, Adhyaya 218, Verse 30

ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत्

यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम्