Mahabharata

Shanti Parva, Adhyaya 217

Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 217, Verse 1

पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत्

निःश्वसन्तं यथा नागं प्रव्याहाराय भारत

Mahabharata

Shanti Parva, Adhyaya 217, Verse 2

यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः

लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन्

Mahabharata

Shanti Parva, Adhyaya 217, Verse 3

दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले

ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि

Mahabharata

Shanti Parva, Adhyaya 217, Verse 4

प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान्

विनिपातमिमं चाद्य शोचस्याहो न शोचसि

Mahabharata

Shanti Parva, Adhyaya 217, Verse 5

अनित्यमुपलक्ष्येदं कालपर्यायमात्मनः

तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्

Mahabharata

Shanti Parva, Adhyaya 217, Verse 6

अन्तवन्त इमे देहा भूतानाममराधिप

तेन शक्र न शोचामि नापराधादिदं मम

Mahabharata

Shanti Parva, Adhyaya 217, Verse 7

जीवितं च शरीरं च प्रेत्य वै सह जायते

उभे सह विवर्धेते उभे सह विनश्यतः

Mahabharata

Shanti Parva, Adhyaya 217, Verse 8

तदीदृशमिदं भावमवशः प्राप्य केवलम्

यद्येवमभिजानामि का व्यथा मे विजानतः

Mahabharata

Shanti Parva, Adhyaya 217, Verse 9

भूतानां निधनं निष्ठा स्रोतसामिव सागरः

नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत्

Mahabharata

Shanti Parva, Adhyaya 217, Verse 10

ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः

ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति

Mahabharata

Shanti Parva, Adhyaya 217, Verse 11

बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम्

विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति

Mahabharata

Shanti Parva, Adhyaya 217, Verse 12

ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः

कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः

Mahabharata

Shanti Parva, Adhyaya 217, Verse 13

अर्थसिद्धिमनर्थं च जीवितं मरणं तथा

सुखदुःखफलं चैव न द्वेष्मि न च कामये

Mahabharata

Shanti Parva, Adhyaya 217, Verse 14

हतं हन्ति हतो ह्येव यो नरो हन्ति कंचन

उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः

Mahabharata

Shanti Parva, Adhyaya 217, Verse 15

हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते

अकर्ता ह्येव भवति कर्ता त्वेव करोति तत्

Mahabharata

Shanti Parva, Adhyaya 217, Verse 16

को हि लोकस्य कुरुते विनाशप्रभवावुभौ

कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः

Mahabharata

Shanti Parva, Adhyaya 217, Verse 17

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्

एतद्योनीनि भूतानि तत्र का परिदेवना

Mahabharata

Shanti Parva, Adhyaya 217, Verse 18

महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः

दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः

Mahabharata

Shanti Parva, Adhyaya 217, Verse 19

सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा

तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः

Mahabharata

Shanti Parva, Adhyaya 217, Verse 20

दग्धमेवानुदहति हतमेवानुहन्ति च

नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः

Mahabharata

Shanti Parva, Adhyaya 217, Verse 21

नास्य द्वीपः कुतः पारं नावारः संप्रदृश्यते

नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन्

Mahabharata

Shanti Parva, Adhyaya 217, Verse 22

यदि मे पश्यतः कालो भूतानि न विनाशयेत्

स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते

Mahabharata

Shanti Parva, Adhyaya 217, Verse 23

तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे

बिभ्रतं गार्दभं रूपमादिश्य परिगर्हसे

Mahabharata

Shanti Parva, Adhyaya 217, Verse 24

इच्छन्नहं विकुर्यां हि रूपाणि बहुधात्मनः

विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे

Mahabharata

Shanti Parva, Adhyaya 217, Verse 25

कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति

कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम्

Mahabharata

Shanti Parva, Adhyaya 217, Verse 26

पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर

अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम्

Mahabharata

Shanti Parva, Adhyaya 217, Verse 27

त्वमप्येवमपेक्षस्व मात्मना विस्मयं गमः

प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन

Mahabharata

Shanti Parva, Adhyaya 217, Verse 28

कौमारमेव ते चित्तं तथैवाद्य यथा पुरा

समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम्

Mahabharata

Shanti Parva, Adhyaya 217, Verse 29

देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः

आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव

Mahabharata

Shanti Parva, Adhyaya 217, Verse 30

नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः

इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः