Shanti Parva, Adhyaya 215, Verse 1
यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाशुभम्
पुरुषं योजयत्येव फलयोगेन भारत
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाशुभम्
पुरुषं योजयत्येव फलयोगेन भारत
कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः
एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रह्रादस्य च संवादमिन्द्रस्य च युधिष्ठिर
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम्
अस्तम्भमनहंकारं सत्त्वस्थं समये रतम्
तुल्यनिन्दास्तुतिं दान्तं शून्यागारनिवेशनम्
चराचराणां भूतानां विदितप्रभवाप्ययम्
अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च
काञ्चने वाथ लोष्टे वा उभयोः समदर्शनम्
आत्मनिःश्रेयसज्ञाने धीरं निश्चितनिश्चयम्
परावरज्ञं भूतानां सर्वज्ञं समदर्शनम्
शक्रः प्रह्रादमासीनमेकान्ते संयतेन्द्रियम्
बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत्
यैः कैश्चित्संमतो लोके गुणैः स्यात्पुरुषो नृषु
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे
अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह
आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः
श्रिया विहीनः प्रह्राद शोचितव्ये न शोचसि
प्रज्ञालाभात्तु दैतेय उताहो धृतिमत्तया
प्रह्राद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः
इति संचोदितस्तेन धीरो निश्चितनिश्चयः
उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन्
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः
स्वभावात्संप्रवर्तन्ते निवर्तन्ते तथैव च
सर्वे भावास्तथाभावाः पुरुषार्थो न विद्यते
पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः
स्वयं तु कुर्वतस्तस्य जातु मानो भवेदिह
यस्तु कर्तारमात्मानं मन्यते साध्वसाधुनोः
तस्य दोषवती प्रज्ञा स्वमूर्त्यज्ञेति मे मतिः
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम्
आरम्भास्तस्य सिध्येरन्न च जातु पराभवेत्
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च
लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः
अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृत्तिमेव च
अप्रयत्नेन पश्यामः केषांचित्तत्स्वभावतः
प्रतिरूपधराः केचिद्दृश्यन्ते बुद्धिसत्तमाः
विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम्
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा
शुभाशुभास्तदा तत्र तस्य किं मानकारणम्
स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः
आत्मप्रतिष्ठिता प्रज्ञा मम नास्ति ततोऽन्यथा
कर्मजं त्विह मन्येऽहं फलयोगं शुभाशुभम्
कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु
यथा वेदयते कश्चिदोदनं वायसो वदन्
एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम्
विकारानेव यो वेद न वेद प्रकृतिं पराम्
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः
स्वभावभाविनो भावान्सर्वानेवेह निश्चये
बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम्
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्
निर्ममो निरहंकारो निरीहो मुक्तबन्धनः
स्वस्थोऽव्यपेतः पश्यामि भूतानां प्रभवाप्ययौ
कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः
नायासो विद्यते शक्र पश्यतो लोकविद्यया