Shanti Parva, Adhyaya 214, Verse 1
द्विजातयो व्रतोपेता यदिदं भुञ्जते हविः
अन्नं ब्राह्मणकामाय कथमेतत्पितामह
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
द्विजातयो व्रतोपेता यदिदं भुञ्जते हविः
अन्नं ब्राह्मणकामाय कथमेतत्पितामह
अवेदोक्तव्रतोपेता भुञ्जानाः कार्यकारिणः
वेदोक्तेषु च भुञ्जाना व्रतलुप्ता युधिष्ठिर
यदिदं तप इत्याहुरुपवासं पृथग्जनाः
एतत्तपो महाराज उताहो किं तपो भवेत्
मासपक्षोपवासेन मन्यन्ते यत्तपो जनाः
आत्मतन्त्रोपघातः स न तपस्तत्सतां मतम्
त्यागश्च सन्नतिश्चैव शिष्यते तप उत्तमम्
सदोपवासी च भवेद्ब्रह्मचारी सदैव च
मुनिश्च स्यात्सदा विप्रो दैवतं च सदा भजेत्
कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत
अमांसाशी सदा च स्यात्पवित्रं च सदा जपेत्
अमृताशी सदा च स्यान्न च स्याद्विषभोजनः
विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः
कथं सदोपवासी स्याद्ब्रह्मचारी कथं भवेत्
विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः
अन्तरा प्रातराशं च सायमाशं तथैव च
सदोपवासी च भवेद्यो न भुङ्क्ते कथंचन
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः
ऋतवादी सदा च स्याज्ज्ञाननित्यश्च यो नरः
अभक्षयन्वृथामांसममांसाशी भवत्युत
दाननित्यः पवित्रश्च अस्वप्नश्च दिवास्वपन्
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा स ह
अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर
अभुक्तवत्सु नाश्नानः सततं यस्तु वै द्विजः
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत
देवताभ्यः पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह
अवशिष्टं तु योऽश्नाति तमाहुर्विघसाशिनम्
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणा सह
उपस्थिताश्चाप्सरोभिः परियान्ति दिवौकसः
देवताभिश्च ये सार्धं पितृभिश्चोपभुञ्जते
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा