Shanti Parva, Adhyaya 212, Verse 1
जनको जनदेवस्तु ज्ञापितः परमर्षिणा
पुनरेवानुपप्रच्छ सांपराये भवाभवौ
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
जनको जनदेवस्तु ज्ञापितः परमर्षिणा
पुनरेवानुपप्रच्छ सांपराये भवाभवौ
भगवन्यदिदं प्रेत्य संज्ञा भवति कस्यचित्
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु
कस्मै क्रियेत कल्पेन निश्चयः कोऽत्र तत्त्वतः
तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम्
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत्
उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते
अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम्
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु
धातवः पञ्चशाखोऽयं खं वायुर्ज्योतिरम्बु भूः
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः
आकाशं वायुरूष्मा च स्नेहो यच्चापि पार्थिवम्
एष पञ्चसमाहारः शरीरमिति नैकधा
ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसंग्रहः
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च
इन्द्रियाणीति पञ्चैते चित्तपूर्वंगमा गुणाः
तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा
सुखदुःखेति यामाहुरदुःखेत्यसुखेति च
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्त्यथ
एते ह्यामरणात्पञ्च षड्गुणा ज्ञानसिद्धये
तेषु कर्मनिसर्गश्च सर्वतत्त्वार्थनिश्चयः
तमाहुः परमं शुक्रं बुद्धिरित्यव्ययं महत्
इमं गुणसमाहारमात्मभावेन पश्यतः
असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति
अनात्मेति च यद्दृष्टं तेनाहं न ममेत्यपि
वर्तते किमधिष्ठाना प्रसक्ता दुःखसंततिः
तत्र सम्यङ्मनो नाम त्यागशास्त्रमनुत्तमम्
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति
त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम्
नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि
सुखत्यागे तपोयोगः सर्वत्यागे समापना
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः
विप्रहाणाय दुःखस्य दुर्गतिर्ह्यन्यथा भवेत्
पञ्च ज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि
मनःषष्ठानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु
हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम्
प्रजनानन्दयोः शेफो विसर्गे पायुरिन्द्रियम्
वाक्तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः
एवमेकादशैतानि बुद्ध्या त्ववसृजेन्मनः
कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः
एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये
येन यस्त्रिविधो भावः पर्यायात्समुपस्थितः
सात्त्विको राजसश्चैव तामसश्चैव ते त्रयः
त्रिविधा वेदना येषु प्रसूता सर्वसाधना
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता
अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः
अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता
कथंचिदपि वर्तन्ते विविधास्तामसा गुणाः
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्
वर्तते सात्त्विको भाव इत्यपेक्षेत तत्तथा
यत्तु संतापसंयुक्तमप्रीतिकरमात्मनः
प्रवृत्तं रज इत्येव ततस्तदभिचिन्तयेत्