Shanti Parva, Adhyaya 211, Verse 1
केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः
जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य मानुषान्
Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.
केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः
जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य मानुषान्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
येन वृत्तेन वृत्तज्ञः स जगाम महत्सुखम्
जनको जनदेवस्तु मिथिलायां जनाधिपः
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने
तस्य स्म शतमाचार्या वसन्ति सततं गृहे
दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः
स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये
आगमस्थः स भूयिष्ठमात्मतत्त्वे न तुष्यति
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः
परिधावन्महीं कृत्स्नां जगाम मिथिलामपि
सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये
सुपर्यवसितार्थश्च निर्द्वंद्वो नष्टसंशयः
ऋषीणामाहुरेकं यं कामादवसितं नृषु
शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम्
यमाहुः कपिलं सांख्याः परमर्षिं प्रजापतिम्
स मन्ये तेन रूपेण विस्मापयति हि स्वयम्
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम्
पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम्
तं समासीनमागम्य मण्डलं कापिलं महत्
पुरुषावस्थमव्यक्तं परमार्थं निबोधयत्
इष्टिसत्रेण संसिद्धो भूयश्च तपसा मुनिः
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते
आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम्
तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः
ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी
तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ
ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम्
एतन्मे भगवानाह कापिलेयाय संभवम्
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम्
सामान्यं कपिलो ज्ञात्वा धर्मज्ञानामनुत्तमम्
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः
जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात्
उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम्
तस्मै परमकल्याय प्रणताय च धर्मतः
अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधीयते
जातिनिर्वेदमुक्त्वा हि कर्मनिर्वेदमब्रवीत्
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत्
यदर्थं कर्मसंसर्गः कर्मणां च फलोदयः
तदनाश्वासिकं मोघं विनाशि चलमध्रुवम्
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके
आगमात्परमस्तीति ब्रुवन्नपि पराजितः
अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः
आत्मानं मन्यते मोहात्तदसम्यक्परं मतम्
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते
अजरोऽयममृत्युश्च राजासौ मन्यते तथा
अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे
किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम्
प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि
प्रत्यक्षो ह्यागमोऽभिन्नः कृतान्तो वा न किंचन
यत्र तत्रानुमानेऽस्ति कृतं भावयतेऽपि वा
अन्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः
रेतो वटकणीकायां घृतपाकाधिवासनम्
जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम्
प्रेत्य भूतात्ययश्चैव देवताभ्युपयाचनम्
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः
न त्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः
अमर्त्यस्य हि मर्त्येन सामान्यं नोपपद्यते