Shanti Parva, Adhyaya 210, Verse 1
न स वेद परं धर्मं यो न वेद चतुष्टयम्
व्यक्ताव्यक्ते च यत्तत्त्वं संप्राप्तं परमर्षिणा
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
न स वेद परं धर्मं यो न वेद चतुष्टयम्
व्यक्ताव्यक्ते च यत्तत्त्वं संप्राप्तं परमर्षिणा
व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम्
प्रवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत्
अत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम्
निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम्
प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत्
प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः
तां गतिं परमामेति निवृत्तिपरमो मुनिः
ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः
तदेवमेतौ विज्ञेयावव्यक्तपुरुषावुभौ
अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम्
तं विशेषमवेक्षेत विशेषेण विचक्षणः
अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि
उभौ नित्यौ सूक्ष्मतरौ महद्भ्यश्च महत्तरौ
सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम्
प्रकृत्या सर्गधर्मिण्या तथा त्रिविधसत्त्वया
विपरीतमतो विद्यात्क्षेत्रज्ञस्य च लक्षणम्
प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम्
अग्राह्यौ पुरुषावेतावलिङ्गत्वादसंहितौ
संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यया
करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते
कीर्त्यते शब्दसंज्ञाभिः कोऽहमेषोऽप्यसाविति
उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः
संवृतोऽयं तथा देही सत्त्वराजसतामसैः
तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिराचितम्
यथासंज्ञो ह्ययं सम्यगन्तकाले न मुह्यति
श्रियं दिव्यामभिप्रेप्सुर्ब्रह्म वाङ्मनसा शुचिः
शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः
त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता
सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि
प्रतापस्तपसो ज्ञानं लोके संशब्दितं तपः
रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम्
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते
वाङ्मनोनियमः साम्यं मानसं तप उच्यते
विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते
आहारनियमेनास्य पाप्मा नश्यति राजसः
वैमनस्यं च विषये यान्त्यस्य करणानि च
तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम्
अन्तकाले वयोत्कर्षाच्छनैः कुर्यादनातुरः
एवं युक्तेन मनसा ज्ञानं तदुपपद्यते
रजसा चाप्ययं देही देहवाञ्शब्दवच्चरेत्
कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः
आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते
हेतुयुक्तः सदोत्सर्गो भूतानां प्रलयस्तथा
परप्रत्ययसर्गे तु नियतं नातिवर्तते
भवान्तप्रभवप्रज्ञा आसते ये विपर्ययम्
धृत्या देहान्धारयन्तो बुद्धिसंक्षिप्तमानसाः
स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तानुपासते
यथागमं च तत्सर्वं बुद्ध्या तन्नैव बुध्यते
देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयः
युक्तो धारणया कश्चित्सत्तां केचिदुपासते
अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम्
अन्तकाले ह्युपासन्नास्तपसा दग्धकिल्बिषाः
सर्व एते महात्मानो गच्छन्ति परमां गतिम्
सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा
देहं तु परमं विद्याद्विमुक्तमपरिग्रहम्
अन्तरिक्षादन्यतरं धारणासक्तमानसम्
मर्त्यलोकाद्विमुच्यन्ते विद्यासंयुक्तमानसाः
ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम्
कषायवर्जितं ज्ञानं येषामुत्पद्यतेऽचलम्
ते यान्ति परमाँल्लोकान्विशुध्यन्तो यथाबलम्
भगवन्तमजं दिव्यं विष्णुमव्यक्तसंज्ञितम्
भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः