Mahabharata

Adi Parva, Adhyaya 221

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 221, Verse 1

ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः

व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम्

Mahabharata

Adi Parva, Adhyaya 221, Verse 2

निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी

जरिता दुःखसंतप्ता विललाप नरेश्वर

Mahabharata

Adi Parva, Adhyaya 221, Verse 3

अयमग्निर्दहन्कक्षमित आयाति भीषणः

जगत्संदीपयन्भीमो मम दुःखविवर्धनः

Mahabharata

Adi Parva, Adhyaya 221, Verse 4

इमे च मां कर्षयन्ति शिशवो मन्दचेतसः

अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम्

त्रासयंश्चायमायाति लेलिहानो महीरुहान्

Mahabharata

Adi Parva, Adhyaya 221, Verse 5

अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम

आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः

Mahabharata

Adi Parva, Adhyaya 221, Verse 6

न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे

कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम्

Mahabharata

Adi Parva, Adhyaya 221, Verse 7

किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम्

चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन

छादयित्वा च वो गात्रैः करिष्ये मरणं सह

Mahabharata

Adi Parva, Adhyaya 221, Verse 8

जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम्

सारिसृक्वः प्रजायेत पितॄणां कुलवर्धनः

Mahabharata

Adi Parva, Adhyaya 221, Verse 9

स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः

इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा

Mahabharata

Adi Parva, Adhyaya 221, Verse 10

कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा

किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला

Mahabharata

Adi Parva, Adhyaya 221, Verse 11

नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात्

एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम्

Mahabharata

Adi Parva, Adhyaya 221, Verse 12

स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट्

अस्मासु हि विनष्टेषु भवितारः सुतास्तव

त्वयि मातर्विनष्टायां न नः स्यात्कुलसंततिः

Mahabharata

Adi Parva, Adhyaya 221, Verse 13

अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः

तद्वै कर्तुं परः कालो मातरेष भवेत्तव

Mahabharata

Adi Parva, Adhyaya 221, Verse 14

मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः

न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः

Mahabharata

Adi Parva, Adhyaya 221, Verse 15

इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः

तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम्

Mahabharata

Adi Parva, Adhyaya 221, Verse 16

ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः

एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः

Mahabharata

Adi Parva, Adhyaya 221, Verse 17

तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसंचयम्

रोचतामेष वोपायो विमोक्षाय हुताशनात्

Mahabharata

Adi Parva, Adhyaya 221, Verse 18

अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत्

पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम्

Mahabharata

Adi Parva, Adhyaya 221, Verse 19

कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत्

कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः

Mahabharata

Adi Parva, Adhyaya 221, Verse 20

बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम्

अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम्

Mahabharata

Adi Parva, Adhyaya 221, Verse 21

गर्हितं मरणं नः स्यादाखुना खादता बिले

शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात्