Mahabharata

Shanti Parva, Adhyaya 208

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 208, Verse 1

दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः

ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम्

Mahabharata

Shanti Parva, Adhyaya 208, Verse 2

जन्ममृत्युजरादुःखैर्व्याधिभिर्मनसः क्लमैः

दृष्ट्वेमं संततं लोकं घटेन्मोक्षाय बुद्धिमान्

Mahabharata

Shanti Parva, Adhyaya 208, Verse 3

वाङ्मनोभ्यां शरीरेण शुचिः स्यादनहंकृतः

प्रशान्तो ज्ञानवान्भिक्षुर्निरपेक्षश्चरेत्सुखम्

Mahabharata

Shanti Parva, Adhyaya 208, Verse 4

अथ वा मनसः सङ्गं पश्येद्भूतानुकम्पया

अत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत्

Mahabharata

Shanti Parva, Adhyaya 208, Verse 5

यत्कृतं प्राक्शुभं कर्म पापं वा तदुपाश्नुते

तस्माच्छुभानि कर्माणि कुर्याद्वाग्बुद्धिकर्मभिः

Mahabharata

Shanti Parva, Adhyaya 208, Verse 6

अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम्

क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत्

Mahabharata

Shanti Parva, Adhyaya 208, Verse 7

यश्चैनं परमं धर्मं सर्वभूतसुखावहम्

दुःखान्निःसरणं वेद स तत्त्वज्ञः सुखी भवेत्

Mahabharata

Shanti Parva, Adhyaya 208, Verse 8

तस्मात्समाहितं बुद्ध्या मनो भूतेषु धारयेत्

नापध्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत्

Mahabharata

Shanti Parva, Adhyaya 208, Verse 9

अवाग्योगप्रयोगेण मनोज्ञं संप्रवर्तते

विवक्षता वा सद्वाक्यं धर्मं सूक्ष्ममवेक्षता

सत्यां वाचमहिंस्रां च वदेदनपवादिनीम्

Mahabharata

Shanti Parva, Adhyaya 208, Verse 10

कल्कापेतामपरुषामनृशंसामपैशुनाम्

ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा

Mahabharata

Shanti Parva, Adhyaya 208, Verse 11

वाक्प्रबुद्धो हि संरागाद्विरागाद्व्याहरेद्यदि

बुद्ध्या ह्यनिगृहीतेन मनसा कर्म तामसम्

रजोभूतैर्हि करणैः कर्मणा प्रतिपद्यते

Mahabharata

Shanti Parva, Adhyaya 208, Verse 12

स दुःखं प्राप्य लोकेऽस्मिन्नरकायोपपद्यते

तस्मान्मनोवाक्शरीरैराचरेद्धैर्यमात्मनः

Mahabharata

Shanti Parva, Adhyaya 208, Verse 13

प्रकीर्णमेषभारो हि यद्वद्धार्येत दस्युभिः

प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा

Mahabharata

Shanti Parva, Adhyaya 208, Verse 14

तानेव च यथा दस्यून्क्षिप्त्वा गच्छेच्छिवां दिशम्

तथा रजस्तमःकर्माण्युत्सृज्य प्राप्नुयात्सुखम्

Mahabharata

Shanti Parva, Adhyaya 208, Verse 15

निःसंदिग्धमनीहो वै मुक्तः सर्वपरिग्रहैः

विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः

Mahabharata

Shanti Parva, Adhyaya 208, Verse 16

ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान्

निष्प्रचारेण मनसा परं तदधिगच्छति

Mahabharata

Shanti Parva, Adhyaya 208, Verse 17

धृतिमानात्मवान्बुद्धिं निगृह्णीयादसंशयम्

मनो बुद्ध्या निगृह्णीयाद्विषयान्मनसात्मनः

Mahabharata

Shanti Parva, Adhyaya 208, Verse 18

निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे

देवतास्ताः प्रकाशन्ते हृष्टा यान्ति तमीश्वरम्

Mahabharata

Shanti Parva, Adhyaya 208, Verse 19

ताभिः संसक्तमनसो ब्रह्मवत्संप्रकाशते

एतैश्चापगतैः सर्वैर्ब्रह्मभूयाय कल्पते

Mahabharata

Shanti Parva, Adhyaya 208, Verse 20

अथ वा न प्रवर्तेत योगतन्त्रैरुपक्रमेत्

येन तन्त्रमयं तन्त्रं वृत्तिः स्यात्तत्तदाचरेत्

Mahabharata

Shanti Parva, Adhyaya 208, Verse 21

कणपिण्याककुल्माषशाकयावकसक्तवः

तथा मूलफलं भैक्षं पर्यायेणोपयोजयेत्

Mahabharata

Shanti Parva, Adhyaya 208, Verse 22

आहारं नियतं चैव देशे काले च सात्त्विकम्

तत्परीक्ष्यानुवर्तेत यत्प्रवृत्त्यनुवर्तकम्

Mahabharata

Shanti Parva, Adhyaya 208, Verse 23

प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत्

ज्ञानेन्धितं ततो ज्ञानमर्कवत्संप्रकाशते

Mahabharata

Shanti Parva, Adhyaya 208, Verse 24

ज्ञानाधिष्ठानमज्ञानं त्रीँल्लोकानधितिष्ठति

विज्ञानानुगतं ज्ञानमज्ञानादपकृष्यते

Mahabharata

Shanti Parva, Adhyaya 208, Verse 25

पृथक्त्वात्संप्रयोगाच्च नासूयुर्वेद शाश्वतम्

स तयोरपवर्गज्ञो वीतरागो विमुच्यते

Mahabharata

Shanti Parva, Adhyaya 208, Verse 26

वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम्

अमृतं तदवाप्नोति यत्तदक्षरमव्ययम्