Mahabharata

Shanti Parva, Adhyaya 207

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 207, Verse 1

अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा

तद्विज्ञानाच्चरन्प्राज्ञः प्राप्नुयात्परमां गतिम्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 2

सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते

पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रवादिनः

Mahabharata

Shanti Parva, Adhyaya 207, Verse 3

सर्वभूतविशिष्टास्ते सर्वज्ञाः सर्वदर्शिनः

ब्राह्मणा वेदतत्त्वज्ञास्तत्त्वार्थगतिनिश्चयाः

Mahabharata

Shanti Parva, Adhyaya 207, Verse 4

नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि

ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः

Mahabharata

Shanti Parva, Adhyaya 207, Verse 5

तांस्तानुपासते धर्मान्धर्मकामा यथागमम्

न त्वेषामर्थसामान्यमन्तरेण गुणानिमान्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 6

वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः

सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणानिमान्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 7

यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम्

परं तत्सर्वभूतेभ्यस्तेन यान्ति परां गतिम्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 8

लिङ्गसंयोगहीनं यच्छरीरस्पर्शवर्जितम्

श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 9

जिह्वया रसनं यच्च तदेव परिवर्जितम्

बुद्ध्या च व्यवसायेन ब्रह्मचर्यमकल्मषम्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 10

सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान्

द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः

Mahabharata

Shanti Parva, Adhyaya 207, Verse 11

सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु

संप्रवृत्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः

Mahabharata

Shanti Parva, Adhyaya 207, Verse 12

योषितां न कथाः श्राव्या न निरीक्ष्या निरम्बराः

कदाचिद्दर्शनादासां दुर्बलानाविशेद्रजः

Mahabharata

Shanti Parva, Adhyaya 207, Verse 13

रागोत्पत्तौ चरेत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः

मग्नः स्वप्ने च मनसा त्रिर्जपेदघमर्षणम्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 14

पाप्मानं निर्दहेदेवमन्तर्भूतं रजोमयम्

ज्ञानयुक्तेन मनसा संततेन विचक्षणः

Mahabharata

Shanti Parva, Adhyaya 207, Verse 15

कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम्

तद्वद्देहगतं विद्यादात्मानं देहबन्धनम्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 16

वातपित्तकफान्रक्तं त्वङ्मांसं स्नायुमस्थि च

मज्जां चैव सिराजालैस्तर्पयन्ति रसा नृणाम्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 17

दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः

याभिः सूक्ष्माः प्रतायन्ते धमन्योऽन्याः सहस्रशः

Mahabharata

Shanti Parva, Adhyaya 207, Verse 18

एवमेताः सिरानद्यो रसोदा देहसागरम्

तर्पयन्ति यथाकालमापगा इव सागरम्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 19

मध्ये च हृदयस्यैका सिरा त्वत्र मनोवहा

शुक्रं संकल्पजं नॄणां सर्वगात्रैर्विमुञ्चति

Mahabharata

Shanti Parva, Adhyaya 207, Verse 20

सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः

नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 21

पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः

शुक्रं निर्मथ्यते तद्वद्देहसंकल्पजैः खजैः

Mahabharata

Shanti Parva, Adhyaya 207, Verse 22

स्वप्नेऽप्येवं यथाभ्येति मनःसंकल्पजं रजः

शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहा

Mahabharata

Shanti Parva, Adhyaya 207, Verse 23

महर्षिर्भगवानत्रिर्वेद तच्छुक्रसंभवम्

त्रिबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते

Mahabharata

Shanti Parva, Adhyaya 207, Verse 24

ये वै शुक्रगतिं विद्युर्भूतसंकरकारिकाम्

विरागा दग्धदोषास्ते नाप्नुयुर्देहसंभवम्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 25

गुणानां साम्यमागम्य मनसैव मनोवहम्

देहकर्म नुदन्प्राणानन्तकाले विमुच्यते

Mahabharata

Shanti Parva, Adhyaya 207, Verse 26

भविता मनसो ज्ञानं मन एव प्रतायते

ज्योतिष्मद्विरजो दिव्यमत्र सिद्धं महात्मनाम्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 27

तस्मात्तदविघाताय कर्म कुर्यादकल्मषम्

रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 28

तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम्

परिपक्वबुद्धिः कालेन आदत्ते मानसं बलम्

Mahabharata

Shanti Parva, Adhyaya 207, Verse 29

सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम्

यदा पश्येत्तदा दोषानतीत्यामृतमश्नुते