Mahabharata

Shanti Parva, Adhyaya 206

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 206, Verse 1

रजसा साध्यते मोहस्तमसा च नरर्षभ

क्रोधलोभौ भयं दर्प एतेषां साधनाच्छुचिः

Mahabharata

Shanti Parva, Adhyaya 206, Verse 2

परमं परमात्मानं देवमक्षयमव्ययम्

विष्णुमव्यक्तसंस्थानं विशन्ते देवसत्तमम्

Mahabharata

Shanti Parva, Adhyaya 206, Verse 3

तस्य मायाविदग्धाङ्गा ज्ञानभ्रष्टा निराशिषः

मानवा ज्ञानसंमोहात्ततः कामं प्रयान्ति वै

Mahabharata

Shanti Parva, Adhyaya 206, Verse 4

कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः

मानदर्पादहंकारमहंकारात्ततः क्रियाः

Mahabharata

Shanti Parva, Adhyaya 206, Verse 5

क्रियाभिः स्नेहसंबन्धः स्नेहाच्छोकमनन्तरम्

सुखदुःखसमारम्भाज्जन्माजन्मकृतक्षणाः

Mahabharata

Shanti Parva, Adhyaya 206, Verse 6

जन्मतो गर्भवासं तु शुक्रशोणितसंभवम्

पुरीषमूत्रविक्लेदशोणितप्रभवाविलम्

Mahabharata

Shanti Parva, Adhyaya 206, Verse 7

तृष्णाभिभूतस्तैर्बद्धस्तानेवाभिपरिप्लवन्

संसारतन्त्रवाहिन्यस्तत्र बुध्येत योषितः

Mahabharata

Shanti Parva, Adhyaya 206, Verse 8

प्रकृत्या क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः

तस्मादेता विशेषेण नरोऽतीयुर्विपश्चितः

Mahabharata

Shanti Parva, Adhyaya 206, Verse 9

कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान्

रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी

Mahabharata

Shanti Parva, Adhyaya 206, Verse 10

तस्मात्तर्षात्मकाद्रागाद्बीजाज्जायन्ति जन्तवः

स्वदेहजानस्वसंज्ञान्यद्वदङ्गात्कृमींस्त्यजेत्

स्वसंज्ञानस्वजांस्तद्वत्सुतसंज्ञान्कृमींस्त्यजेत्

Mahabharata

Shanti Parva, Adhyaya 206, Verse 11

शुक्रतो रसतश्चैव स्नेहाज्जायन्ति जन्तवः

स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान्

Mahabharata

Shanti Parva, Adhyaya 206, Verse 12

रजस्तमसि पर्यस्तं सत्त्वं तमसि संस्थितम्

ज्ञानाधिष्ठानमज्ञानं बुद्ध्यहंकारलक्षणम्

Mahabharata

Shanti Parva, Adhyaya 206, Verse 13

तद्बीजं देहिनामाहुस्तद्बीजं जीवसंज्ञितम्

कर्मणा कालयुक्तेन संसारपरिवर्तकम्

Mahabharata

Shanti Parva, Adhyaya 206, Verse 14

रमत्ययं यथा स्वप्ने मनसा देहवानिव

कर्मगर्भैर्गुणैर्देही गर्भे तदुपपद्यते

Mahabharata

Shanti Parva, Adhyaya 206, Verse 15

कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम्

जायते तदहंकाराद्रागयुक्तेन चेतसा

Mahabharata

Shanti Parva, Adhyaya 206, Verse 16

शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः

रूपरागात्तथा चक्षुर्घ्राणं गन्धचिकीर्षया

Mahabharata

Shanti Parva, Adhyaya 206, Verse 17

स्पर्शनेभ्यस्तथा वायुः प्राणापानव्यपाश्रयः

व्यानोदानौ समानश्च पञ्चधा देहयापना

Mahabharata

Shanti Parva, Adhyaya 206, Verse 18

संजातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः

दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः

Mahabharata

Shanti Parva, Adhyaya 206, Verse 19

दुःखं विद्यादुपादानादभिमानाच्च वर्धते

त्यागात्तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते

Mahabharata

Shanti Parva, Adhyaya 206, Verse 20

इन्द्रियाणां रजस्येव प्रभवप्रलयावुभौ

परीक्ष्य संचरेद्विद्वान्यथावच्छास्त्रचक्षुषा

Mahabharata

Shanti Parva, Adhyaya 206, Verse 21

ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम्

ज्ञातैश्च कारणैर्देही न देहं पुनरर्हति