Mahabharata

Shanti Parva, Adhyaya 203

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 203, Verse 1

योगं मे परमं तात मोक्षस्य वद भारत

तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर

Mahabharata

Shanti Parva, Adhyaya 203, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह

Mahabharata

Shanti Parva, Adhyaya 203, Verse 3

कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम्

शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः

चरणावुपसंगृह्य स्थितः प्राञ्जलिरब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 203, Verse 4

उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम

संशयो मे महान्कश्चित्तन्मे व्याख्यातुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 203, Verse 5

कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम्

कथं च सर्वभूतेषु समेषु द्विजसत्तम

सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः

Mahabharata

Shanti Parva, Adhyaya 203, Verse 6

वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत्

एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 203, Verse 7

शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम्

अध्यात्मं सर्वभूतानामागमानां च यद्वसु

Mahabharata

Shanti Parva, Adhyaya 203, Verse 8

वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो मुखम्

सत्यं दानमथो यज्ञस्तितिक्षा दम आर्जवम्

Mahabharata

Shanti Parva, Adhyaya 203, Verse 9

पुरुषं सनातनं विष्णुं यत्तद्वेदविदो विदुः

सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम्

तदिदं ब्रह्म वार्ष्णेयमितिहासं शृणुष्व मे

Mahabharata

Shanti Parva, Adhyaya 203, Verse 10

ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तथा

माहात्म्यं देवदेवस्य विष्णोरमिततेजसः

अर्हस्त्वमसि कल्याण वार्ष्णेयं शृणु यत्परम्

Mahabharata

Shanti Parva, Adhyaya 203, Verse 11

कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम्

त्रैलोक्यं सर्वभूतेषु चक्रवत्परिवर्तते

Mahabharata

Shanti Parva, Adhyaya 203, Verse 12

यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम्

वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम्

Mahabharata

Shanti Parva, Adhyaya 203, Verse 13

पितॄन्देवानृषींश्चैव तथा वै यक्षदानवान्

नागासुरमनुष्यांश्च सृजते परमोऽव्ययः

Mahabharata

Shanti Parva, Adhyaya 203, Verse 14

तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान्

प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः

Mahabharata

Shanti Parva, Adhyaya 203, Verse 15

यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये

दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु

Mahabharata

Shanti Parva, Adhyaya 203, Verse 16

अथ यद्यद्यदा भावि कालयोगाद्युगादिषु

तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम्

Mahabharata

Shanti Parva, Adhyaya 203, Verse 17

युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः

लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा

Mahabharata

Shanti Parva, Adhyaya 203, Verse 18

वेदविद्वेद भगवान्वेदाङ्गानि बृहस्पतिः

भार्गवो नीतिशास्त्रं च जगाद जगतो हितम्

Mahabharata

Shanti Parva, Adhyaya 203, Verse 19

गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम्

देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम्

Mahabharata

Shanti Parva, Adhyaya 203, Verse 20

न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः

हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते

Mahabharata

Shanti Parva, Adhyaya 203, Verse 21

अनाद्यं यत्परं ब्रह्म न देवा नर्षयो विदुः

एकस्तद्वेद भगवान्धाता नारायणः प्रभुः

Mahabharata

Shanti Parva, Adhyaya 203, Verse 22

नारायणादृषिगणास्तथा मुख्याः सुरासुराः

राजर्षयः पुराणाश्च परमं दुःखभेषजम्

Mahabharata

Shanti Parva, Adhyaya 203, Verse 23

पुरुषाधिष्ठितं भावं प्रकृतिः सूयते सदा

हेतुयुक्तमतः सर्वं जगत्संपरिवर्तते

Mahabharata

Shanti Parva, Adhyaya 203, Verse 24

दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः

प्रकृतिः सृजते तद्वदानन्त्यान्नापचीयते

Mahabharata

Shanti Parva, Adhyaya 203, Verse 25

अव्यक्तकर्मजा बुद्धिरहंकारं प्रसूयते

आकाशं चाप्यहंकाराद्वायुराकाशसंभवः

Mahabharata

Shanti Parva, Adhyaya 203, Verse 26

वायोस्तेजस्ततश्चापस्त्वद्भ्यो हि वसुधोद्गता

मूलप्रकृतयोऽष्टौ ता जगदेतास्ववस्थितम्

Mahabharata

Shanti Parva, Adhyaya 203, Verse 27

ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि

विषयाः पञ्च चैकं च विकारे षोडशं मनः

Mahabharata

Shanti Parva, Adhyaya 203, Verse 28

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाण्यपि

पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणामपि

Mahabharata

Shanti Parva, Adhyaya 203, Verse 29

शब्दः स्पर्शोऽथ रूपं च रसो गन्धस्तथैव च

विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः

Mahabharata

Shanti Parva, Adhyaya 203, Verse 30

रसज्ञाने तु जिह्वेयं व्याहृते वाक्तथैव च

इन्द्रियैर्विविधैर्युक्तं सर्वं व्यस्तं मनस्तथा