Mahabharata

Shanti Parva, Adhyaya 202

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 202, Verse 1

पितामह महाप्राज्ञ युधि सत्यपराक्रम

श्रोतुमिच्छामि कार्त्स्न्येन कृष्णमव्ययमीश्वरम्

Mahabharata

Shanti Parva, Adhyaya 202, Verse 2

यच्चास्य तेजः सुमहद्यच्च कर्म पुरातनम्

तन्मे सर्वं यथातत्त्वं प्रब्रूहि भरतर्षभ

Mahabharata

Shanti Parva, Adhyaya 202, Verse 3

तिर्यग्योनिगतं रूपं कथं धारितवान्हरिः

केन कार्यविसर्गेण तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 202, Verse 4

पुराहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः

तत्रापश्यं मुनिगणान्समासीनान्सहस्रशः

Mahabharata

Shanti Parva, Adhyaya 202, Verse 5

ततस्ते मधुपर्केण पूजां चक्रुरथो मयि

प्रतिगृह्य च तां पूजां प्रत्यनन्दमृषीनहम्

Mahabharata

Shanti Parva, Adhyaya 202, Verse 6

कथैषा कथिता तत्र कश्यपेन महर्षिणा

मनःप्रह्लादिनीं दिव्यां तामिहैकमनाः शृणु

Mahabharata

Shanti Parva, Adhyaya 202, Verse 7

पुरा दानवमुख्या हि क्रोधलोभसमन्विताः

बलेन मत्ताः शतशो नरकाद्या महासुराः

Mahabharata

Shanti Parva, Adhyaya 202, Verse 8

तथैव चान्ये बहवो दानवा युद्धदुर्मदाः

न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम्

Mahabharata

Shanti Parva, Adhyaya 202, Verse 9

दानवैरर्द्यमानास्तु देवा देवर्षयस्तथा

न शर्म लेभिरे राजन्विशमानास्ततस्ततः

Mahabharata

Shanti Parva, Adhyaya 202, Verse 10

पृथिवीं चार्तरूपां ते समपश्यन्दिवौकसः

दानवैरभिसंकीर्णां घोररूपैर्महाबलैः

भारार्तामपकृष्टां च दुःखितां संनिमज्जतीम्

Mahabharata

Shanti Parva, Adhyaya 202, Verse 11

अथादितेयाः संत्रस्ता ब्रह्माणमिदमब्रुवन्

कथं शक्यामहे ब्रह्मन्दानवैरुपमर्दनम्

Mahabharata

Shanti Parva, Adhyaya 202, Verse 12

स्वयंभूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया

ते वरेणाभिसंमत्ता बलेन च मदेन च

Mahabharata

Shanti Parva, Adhyaya 202, Verse 13

नावभोत्स्यन्ति संमूढा विष्णुमव्यक्तदर्शनम्

वराहरूपिणं देवमधृष्यममरैरपि

Mahabharata

Shanti Parva, Adhyaya 202, Verse 14

एष वेगेन गत्वा हि यत्र ते दानवाधमाः

अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः

शमयिष्यति श्रुत्वा ते जहृषुः सुरसत्तमाः

Mahabharata

Shanti Parva, Adhyaya 202, Verse 15

ततो विष्णुर्महातेजा वाराहं रूपमाश्रितः

अन्तर्भूमिं संप्रविश्य जगाम दितिजान्प्रति

Mahabharata

Shanti Parva, Adhyaya 202, Verse 16

दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वममानुषम्

प्रसह्य सहसा सर्वे संतस्थुः कालमोहिताः

Mahabharata

Shanti Parva, Adhyaya 202, Verse 17

सर्वे च समभिद्रुत्य वराहं जगृहुः समम्

संक्रुद्धाश्च वराहं तं व्यकर्षन्त समन्ततः

Mahabharata

Shanti Parva, Adhyaya 202, Verse 18

दानवेन्द्रा महाकाया महावीर्या बलोच्छ्रिताः

नाशक्नुवंश्च किंचित्ते तस्य कर्तुं तदा विभो

Mahabharata

Shanti Parva, Adhyaya 202, Verse 19

ततोऽगमन्विस्मयं ते दानवेन्द्रा भयात्तदा

संशयं गतमात्मानं मेनिरे च सहस्रशः

Mahabharata

Shanti Parva, Adhyaya 202, Verse 20

ततो देवादिदेवः स योगात्मा योगसारथिः

योगमास्थाय भगवांस्तदा भरतसत्तम

Mahabharata

Shanti Parva, Adhyaya 202, Verse 21

विननाद महानादं क्षोभयन्दैत्यदानवान्

संनादिता येन लोकाः सर्वाश्चैव दिशो दश

Mahabharata

Shanti Parva, Adhyaya 202, Verse 22

तेन संनादशब्देन लोकाः संक्षोभमागमन्

संभ्रान्ताश्च दिशः सर्वा देवाः शक्रपुरोगमाः

Mahabharata

Shanti Parva, Adhyaya 202, Verse 23

निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा

स्थावरं जङ्गमं चैव तेन नादेन मोहितम्

Mahabharata

Shanti Parva, Adhyaya 202, Verse 24

ततस्ते दानवाः सर्वे तेन शब्देन भीषिताः

पेतुर्गतासवश्चैव विष्णुतेजोविमोहिताः

Mahabharata

Shanti Parva, Adhyaya 202, Verse 25

रसातलगतांश्चैव वराहस्त्रिदशद्विषः

खुरैः संदारयामास मांसमेदोस्थिसंचयम्

Mahabharata

Shanti Parva, Adhyaya 202, Verse 26

नादेन तेन महता सनातन इति स्मृतः

पद्मनाभो महायोगी भूताचार्यः स भूतराट्

Mahabharata

Shanti Parva, Adhyaya 202, Verse 27

ततो देवगणाः सर्वे पितामहमुपाब्रुवन्

नादोऽयं कीदृशो देव नैनं विद्म वयं विभो

कोऽसौ हि कस्य वा नादो येन विह्वलितं जगत्

Mahabharata

Shanti Parva, Adhyaya 202, Verse 28

एतस्मिन्नन्तरे विष्णुर्वाराहं रूपमास्थितः

उदतिष्ठन्महादेवः स्तूयमानो महर्षिभिः

Mahabharata

Shanti Parva, Adhyaya 202, Verse 29

निहत्य दानवपतीन्महावर्ष्मा महाबलः

एष देवो महायोगी भूतात्मा भूतभावनः

Mahabharata

Shanti Parva, Adhyaya 202, Verse 30

सर्वभूतेश्वरो योगी योनिरात्मा तथात्मनः

स्थिरीभवत कृष्णोऽयं सर्वपापप्रणाशनः