Mahabharata

Adi Parva, Adhyaya 220

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 220, Verse 1

किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते

तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे

Mahabharata

Adi Parva, Adhyaya 220, Verse 2

अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च

कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम्

Mahabharata

Adi Parva, Adhyaya 220, Verse 3

तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम्

कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः

Mahabharata

Adi Parva, Adhyaya 220, Verse 4

यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते

तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत

Mahabharata

Adi Parva, Adhyaya 220, Verse 5

धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः

आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः

Mahabharata

Adi Parva, Adhyaya 220, Verse 6

स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम्

स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः

Mahabharata

Adi Parva, Adhyaya 220, Verse 7

स गत्वा तपसः पारं देहमुत्सृज्य भारत

जगाम पितृलोकाय न लेभे तत्र तत्फलम्

Mahabharata

Adi Parva, Adhyaya 220, Verse 8

स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि

पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः

Mahabharata

Adi Parva, Adhyaya 220, Verse 9

किमर्थमावृता लोका ममैते तपसार्जिताः

किं मया न कृतं तत्र यस्येदं कर्मणः फलम्

Mahabharata

Adi Parva, Adhyaya 220, Verse 10

तत्राहं तत्करिष्यामि यदर्थमिदमावृतम्

फलमेतस्य तपसः कथयध्वं दिवौकसः

Mahabharata

Adi Parva, Adhyaya 220, Verse 11

ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु

क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः

Mahabharata

Adi Parva, Adhyaya 220, Verse 12

तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः

तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा

Mahabharata

Adi Parva, Adhyaya 220, Verse 13

त इमे प्रसवस्यार्थे तव लोकाः समावृताः

प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान्

Mahabharata

Adi Parva, Adhyaya 220, Verse 14

पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने

तस्मादपत्यसंताने यतस्व द्विजसत्तम

Mahabharata

Adi Parva, Adhyaya 220, Verse 15

तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम्

क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत्

Mahabharata

Adi Parva, Adhyaya 220, Verse 16

स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान्

शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान्

Mahabharata

Adi Parva, Adhyaya 220, Verse 17

तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः

तानपास्य स तत्रैव जगाम लपितां प्रति

बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने

Mahabharata

Adi Parva, Adhyaya 220, Verse 18

तस्मिन्गते महाभागे लपितां प्रति भारत

अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत्

Mahabharata

Adi Parva, Adhyaya 220, Verse 19

तेन त्यक्तानसंत्याज्यानृषीनण्डगतान्वने

नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप

बभार चैतान्संजातान्स्ववृत्त्या स्नेहविक्लवा

Mahabharata

Adi Parva, Adhyaya 220, Verse 20

ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः

मन्दपालश्चरंस्तस्मिन्वने लपितया सह

Mahabharata

Adi Parva, Adhyaya 220, Verse 21

तं संकल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान्

सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम्

पुत्रान्परिददद्भीतो लोकपालं महौजसम्

Mahabharata

Adi Parva, Adhyaya 220, Verse 22

त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट्

त्वमन्तः सर्वभूतानां गूढश्चरसि पावक

Mahabharata

Adi Parva, Adhyaya 220, Verse 23

त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः

त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन्

Mahabharata

Adi Parva, Adhyaya 220, Verse 24

त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः

त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन

Mahabharata

Adi Parva, Adhyaya 220, Verse 25

तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम्

गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम्

Mahabharata

Adi Parva, Adhyaya 220, Verse 26

त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः

दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः

Mahabharata

Adi Parva, Adhyaya 220, Verse 27

जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते

तवैव कर्म विहितं भूतं सर्वं चराचरम्

Mahabharata

Adi Parva, Adhyaya 220, Verse 28

त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत्

त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम्

Mahabharata

Adi Parva, Adhyaya 220, Verse 29

अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः

त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः

Mahabharata

Adi Parva, Adhyaya 220, Verse 30

एवं स्तुतस्ततस्तेन मन्दपालेन पावकः

तुतोष तस्य नृपते मुनेरमिततेजसः

उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते