Mahabharata

Shanti Parva, Adhyaya 197

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 197, Verse 1

यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम्

ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ

Mahabharata

Shanti Parva, Adhyaya 197, Verse 2

यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा

तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति

Mahabharata

Shanti Parva, Adhyaya 197, Verse 3

स एव लुलिते तस्मिन्यथा रूपं न पश्यति

तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति

Mahabharata

Shanti Parva, Adhyaya 197, Verse 4

अबुद्धिरज्ञानकृता अबुद्ध्या दुष्यते मनः

दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः

Mahabharata

Shanti Parva, Adhyaya 197, Verse 5

अज्ञानतृप्तो विषयेष्ववगाढो न दृश्यते

अदृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते

Mahabharata

Shanti Parva, Adhyaya 197, Verse 6

तर्षच्छेदो न भवति पुरुषस्येह कल्मषात्

निवर्तते तथा तर्षः पापमन्तं गतं यथा

Mahabharata

Shanti Parva, Adhyaya 197, Verse 7

विषयेषु च संसर्गाच्छाश्वतस्य नसंश्रयात्

मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते

Mahabharata

Shanti Parva, Adhyaya 197, Verse 8

ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः

अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि

Mahabharata

Shanti Parva, Adhyaya 197, Verse 9

प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी

तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना

Mahabharata

Shanti Parva, Adhyaya 197, Verse 10

इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः

बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम्

Mahabharata

Shanti Parva, Adhyaya 197, Verse 11

अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः

मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति

Mahabharata

Shanti Parva, Adhyaya 197, Verse 12

यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा

विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वामृतमश्नुते

Mahabharata

Shanti Parva, Adhyaya 197, Verse 13

उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम्

स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति

Mahabharata

Shanti Parva, Adhyaya 197, Verse 14

अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः

प्राप्येन्द्रियगुणान्पञ्च सोऽस्तमावृत्य गच्छति

Mahabharata

Shanti Parva, Adhyaya 197, Verse 15

प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः

प्राप्नोत्ययं कर्मफलं प्रवृद्धं धर्ममात्मवान्

Mahabharata

Shanti Parva, Adhyaya 197, Verse 16

विषया विनिवर्तन्ते निराहारस्य देहिनः

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते

Mahabharata

Shanti Parva, Adhyaya 197, Verse 17

बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते

तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम्

Mahabharata

Shanti Parva, Adhyaya 197, Verse 18

अस्पर्शनमशृण्वानमनास्वादमदर्शनम्

अघ्राणमवितर्कं च सत्त्वं प्रविशते परम्

Mahabharata

Shanti Parva, Adhyaya 197, Verse 19

मनस्याकृतयो मग्ना मनस्त्वतिगतं मतिम्

मतिस्त्वतिगता ज्ञानं ज्ञानं त्वभिगतं परम्

Mahabharata

Shanti Parva, Adhyaya 197, Verse 20

इन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः

न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मस्त्वेतानि पश्यति