Mahabharata

Shanti Parva, Adhyaya 196

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 196, Verse 1

यदिन्द्रियैस्तूपकृतान्पुरस्ता;त्प्राप्तान्गुणान्संस्मरते चिराय

तेष्विन्द्रियेषूपहतेषु पश्चा;त्स बुद्धिरूपः परमः स्वभावः

Mahabharata

Shanti Parva, Adhyaya 196, Verse 2

यथेन्द्रियार्थान्युगपत्समस्ता;न्नावेक्षते कृत्स्नमतुल्यकालम्

यथाबलं संचरते स विद्वां;स्तस्मात्स एकः परमः शरीरी

Mahabharata

Shanti Parva, Adhyaya 196, Verse 3

रजस्तमः सत्त्वमथो तृतीयं; गच्छत्यसौ ज्ञानगुणान्विरूपान्

तथेन्द्रियाण्याविशते शरीरी; हुताशनं वायुरिवेन्धनस्थम्

Mahabharata

Shanti Parva, Adhyaya 196, Verse 4

न चक्षुषा पश्यति रूपमात्मनो; न पश्यति स्पर्शनमिन्द्रियेन्द्रियम्

न श्रोत्रलिङ्गं श्रवणे निदर्शनं; तथागतं पश्यति तद्विनश्यति

Mahabharata

Shanti Parva, Adhyaya 196, Verse 5

श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना

सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति

Mahabharata

Shanti Parva, Adhyaya 196, Verse 6

यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा

न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता

Mahabharata

Shanti Parva, Adhyaya 196, Verse 7

तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ

अदृष्टपूर्वश्चक्षुर्भ्यां न चासौ नास्ति तावता

Mahabharata

Shanti Parva, Adhyaya 196, Verse 8

पश्यन्नपि यथा लक्ष्म जगत्सोमे न विन्दति

एवमस्ति न वेत्येतन्न च तन्न परायणम्

Mahabharata

Shanti Parva, Adhyaya 196, Verse 9

रूपवन्तमरूपत्वादुदयास्तमये बुधाः

धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम्

Mahabharata

Shanti Parva, Adhyaya 196, Verse 10

तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः

प्रत्यासन्नं निनीषन्ति ज्ञेयं ज्ञानाभिसंहितम्

Mahabharata

Shanti Parva, Adhyaya 196, Verse 11

न हि खल्वनुपायेन कश्चिदर्थोऽभिसिध्यति

सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः

Mahabharata

Shanti Parva, Adhyaya 196, Verse 12

मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा

गजानां च गजैरेवं ज्ञेयं ज्ञानेन गृह्यते

Mahabharata

Shanti Parva, Adhyaya 196, Verse 13

अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम्

तद्वन्मूर्तिषु मूर्तिष्ठं ज्ञेयं ज्ञानेन पश्यति

Mahabharata

Shanti Parva, Adhyaya 196, Verse 14

नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि

तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति

Mahabharata

Shanti Parva, Adhyaya 196, Verse 15

यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते

न च नाशोऽस्य भवति तथा विद्धि शरीरिणम्

Mahabharata

Shanti Parva, Adhyaya 196, Verse 16

क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते

तद्वन्मूर्तिवियुक्तः सञ्शरीरी नोपलभ्यते

Mahabharata

Shanti Parva, Adhyaya 196, Verse 17

यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः

तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः

Mahabharata

Shanti Parva, Adhyaya 196, Verse 18

जन्मवृद्धिक्षयश्चास्य प्रत्यक्षेणोपलभ्यते

सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः

Mahabharata

Shanti Parva, Adhyaya 196, Verse 19

उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते

चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान्

Mahabharata

Shanti Parva, Adhyaya 196, Verse 20

नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः

विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम्

Mahabharata

Shanti Parva, Adhyaya 196, Verse 21

यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते

तद्वच्छरीरसंयुक्तः शरीरीत्युपलभ्यते

Mahabharata

Shanti Parva, Adhyaya 196, Verse 22

यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते

तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते

Mahabharata

Shanti Parva, Adhyaya 196, Verse 23

यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः

तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः