Mahabharata

Shanti Parva, Adhyaya 195

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 195, Verse 1

अक्षरात्खं ततो वायुर्वायोर्ज्योतिस्ततो जलम्

जलात्प्रसूता जगती जगत्यां जायते जगत्

Mahabharata

Shanti Parva, Adhyaya 195, Verse 2

इमे शरीरैर्जलमेव गत्वा; जलाच्च तेजः पवनोऽन्तरिक्षम्

खाद्वै निवर्तन्ति नभाविनस्ते; ये भाविनस्ते परमाप्नुवन्ति

Mahabharata

Shanti Parva, Adhyaya 195, Verse 3

नोष्णं न शीतं मृदु नापि तीक्ष्णं; नाम्लं कषायं मधुरं न तिक्तम्

न शब्दवन्नापि च गन्धवत्त;न्न रूपवत्तत्परमस्वभावम्

Mahabharata

Shanti Parva, Adhyaya 195, Verse 4

स्पर्शं तनुर्वेद रसं तु जिह्वा; घ्राणं च गन्धाञ्श्रवणे च शब्दान्

रूपाणि चक्षुर्न च तत्परं य;द्गृह्णन्त्यनध्यात्मविदो मनुष्याः

Mahabharata

Shanti Parva, Adhyaya 195, Verse 5

निवर्तयित्वा रसनं रसेभ्यो; घ्राणं च गन्धाच्छ्रवणे च शब्दात्

स्पर्शात्तनुं रूपगुणात्तु चक्षु;स्ततः परं पश्यति स्वं स्वभावम्

Mahabharata

Shanti Parva, Adhyaya 195, Verse 6

यतो गृहीत्वा हि करोति यच्च; यस्मिंश्च तामारभते प्रवृत्तिम्

यस्मिंश्च यद्येन च यश्च कर्ता; तत्कारणं तं समुपायमाहुः

Mahabharata

Shanti Parva, Adhyaya 195, Verse 7

यच्चाभिभूः साधकं व्यापकं च; यन्मन्त्रवच्छंस्यते चैव लोके

यः सर्वहेतुः परमार्थकारी; तत्कारणं कार्यमतो यदन्यत्

Mahabharata

Shanti Parva, Adhyaya 195, Verse 8

यथा च कश्चित्सुकृतैर्मनुष्यः; शुभाशुभं प्राप्नुतेऽथाविरोधात्

एवं शरीरेषु शुभाशुभेषु; स्वकर्मजैर्ज्ञानमिदं निबद्धम्

Mahabharata

Shanti Parva, Adhyaya 195, Verse 9

यथा प्रदीपः पुरतः प्रदीप्तः; प्रकाशमन्यस्य करोति दीप्यन्

तथेह पञ्चेन्द्रियदीपवृक्षा; ज्ञानप्रदीप्ताः परवन्त एव

Mahabharata

Shanti Parva, Adhyaya 195, Verse 10

यथा हि राज्ञो बहवो ह्यमात्याः; पृथक्प्रमानं प्रवदन्ति युक्ताः

तद्वच्छरीरेषु भवन्ति पञ्च; ज्ञानैकदेशः परमः स तेभ्यः

Mahabharata

Shanti Parva, Adhyaya 195, Verse 11

यथार्चिषोऽग्नेः पवनस्य वेगा; मरीचयोऽर्कस्य नदीषु चापः

गच्छन्ति चायान्ति च तन्यमाना;स्तद्वच्छरीराणि शरीरिणां तु

Mahabharata

Shanti Parva, Adhyaya 195, Verse 12

यथा च कश्चित्परशुं गृहीत्वा; धूमं न पश्येज्ज्वलनं च काष्ठे

तद्वच्छरीरोदरपाणिपादं; छित्त्वा न पश्यन्ति ततो यदन्यत्

Mahabharata

Shanti Parva, Adhyaya 195, Verse 13

तान्येव काष्ठानि यथा विमथ्य; धूमं च पश्येज्ज्वलनं च योगात्

तद्वत्सुबुद्धिः सममिन्द्रियत्वा;द्बुधः परं पश्यति स्वं स्वभावम्

Mahabharata

Shanti Parva, Adhyaya 195, Verse 14

यथात्मनोऽङ्गं पतितं पृथिव्यां; स्वप्नान्तरे पश्यति चात्मनोऽन्यत्

श्रोत्रादियुक्तः सुमनाः सुबुद्धि;र्लिङ्गात्तथा गच्छति लिङ्गमन्यत्

Mahabharata

Shanti Parva, Adhyaya 195, Verse 15

उत्पत्तिवृद्धिक्षयसंनिपातै;र्न युज्यतेऽसौ परमः शरीरी

अनेन लिङ्गेन तु लिङ्गमन्य;द्गच्छत्यदृष्टः प्रतिसंधियोगात्

Mahabharata

Shanti Parva, Adhyaya 195, Verse 16

न चक्षुषा पश्यति रूपमात्मनो; न चापि संस्पर्शमुपैति किंचित्

न चापि तैः साधयतेऽथ कार्यं; ते तं न पश्यन्ति स पश्यते तान्

Mahabharata

Shanti Parva, Adhyaya 195, Verse 17

यथा प्रदीपे ज्वलतोऽनलस्य; संतापजं रूपमुपैति किंचित्

न चान्तरं रूपगुणं बिभर्ति; तथैव तद्दृश्यते रूपमस्य

Mahabharata

Shanti Parva, Adhyaya 195, Verse 18

यथा मनुष्यः परिमुच्य काय;मदृश्यमन्यद्विशते शरीरम्

विसृज्य भूतेषु महत्सु देहं; तदाश्रयं चैव बिभर्ति रूपम्

Mahabharata

Shanti Parva, Adhyaya 195, Verse 19

खं वायुमग्निं सलिलं तथोर्वीं; समन्ततोऽभ्याविशते शरीरी

नानाश्रयाः कर्मसु वर्तमानाः; श्रोत्रादयः पञ्च गुणाञ्श्रयन्ते

Mahabharata

Shanti Parva, Adhyaya 195, Verse 20

श्रोत्रं खतो घ्राणमथो पृथिव्या;स्तेजोमयं रूपमथो विपाकः

जलाश्रयः स्वेद उक्तो रसश्च; वाय्वात्मकः स्पर्शकृतो गुणश्च

Mahabharata

Shanti Parva, Adhyaya 195, Verse 21

महत्सु भूतेषु वसन्ति पञ्च; पञ्चेन्द्रियार्थाश्च तथेन्द्रियेषु

सर्वाणि चैतानि मनोनुगानि; बुद्धिं मनोऽन्वेति मनः स्वभावम्

Mahabharata

Shanti Parva, Adhyaya 195, Verse 22

शुभाशुभं कर्म कृतं यदस्य; तदेव प्रत्याददते स्वदेहे

मनोऽनुवर्तन्ति परावराणि; जलौकसः स्रोत इवानुकूलम्

Mahabharata

Shanti Parva, Adhyaya 195, Verse 23

चलं यथा दृष्टिपथं परैति; सूक्ष्मं महद्रूपमिवाभिपाति

स्वरूपमालोचयते च रूपं; परं तथा बुद्धिपथं परैति