Mahabharata

Shanti Parva, Adhyaya 194

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 194, Verse 1

किं फलं ज्ञानयोगस्य वेदानां नियमस्य च

भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 194, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः

Mahabharata

Shanti Parva, Adhyaya 194, Verse 3

प्रजापतिं श्रेष्ठतमं पृथिव्यां; देवर्षिसंघप्रवरो महर्षिः

बृहस्पतिः प्रश्नमिमं पुराणं; पप्रच्छ शिष्योऽथ गुरुं प्रणम्य

Mahabharata

Shanti Parva, Adhyaya 194, Verse 4

यत्कारणं मन्त्रविधिः प्रवृत्तो; ज्ञाने फलं यत्प्रवदन्ति विप्राः

यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यतां मे भगवन्यथावत्

Mahabharata

Shanti Parva, Adhyaya 194, Verse 5

यदर्थशास्त्रागममन्त्रविद्भि;र्यज्ञैरनेकैर्वरगोप्रदानैः

फलं महद्भिर्यदुपास्यते च; तत्किं कथं वा भविता क्व वा तत्

Mahabharata

Shanti Parva, Adhyaya 194, Verse 6

मही महीजाः पवनोऽन्तरिक्षं; जलौकसश्चैव जलं दिवं च

दिवौकसश्चैव यतः प्रसूता;स्तदुच्यतां मे भगवन्पुराणम्

Mahabharata

Shanti Parva, Adhyaya 194, Verse 7

ज्ञानं यतः प्रार्थयते नरो वै; ततस्तदर्था भवति प्रवृत्तिः

न चाप्यहं वेद परं पुराणं; मिथ्याप्रवृत्तिं च कथं नु कुर्याम्

Mahabharata

Shanti Parva, Adhyaya 194, Verse 8

ऋक्सामसंघांश्च यजूंषि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम्

अधीत्य च व्याकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि

Mahabharata

Shanti Parva, Adhyaya 194, Verse 9

स मे भवाञ्शंसतु सर्वमेत;ज्ज्ञाने फलं कर्मणि वा यदस्ति

यथा च देहाच्च्यवते शरीरी; पुनः शरीरं च यथाभ्युपैति

Mahabharata

Shanti Parva, Adhyaya 194, Verse 10

यद्यत्प्रियं यस्य सुखं तदाहु;स्तदेव दुःखं प्रवदन्त्यनिष्टम्

इष्टं च मे स्यादितरच्च न स्या;देतत्कृते कर्मविधिः प्रवृत्तः

इष्टं त्वनिष्टं च न मां भजेते;त्येतत्कृते ज्ञानविधिः प्रवृत्तः

Mahabharata

Shanti Parva, Adhyaya 194, Verse 11

कामात्मकाश्छन्दसि कर्मयोगा; एभिर्विमुक्तः परमश्नुवीत

नानाविधे कर्मपथे सुखार्थी; नरः प्रवृत्तो न परं प्रयाति

परं हि तत्कर्मपथादपेतं; निराशिषं ब्रह्मपरं ह्यवश्यम्

Mahabharata

Shanti Parva, Adhyaya 194, Verse 12

प्रजाः सृष्टा मनसा कर्मणा च; द्वावप्येतौ सत्पथौ लोकजुष्टौ

दृष्ट्वा कर्म शाश्वतं चान्तवच्च; मनस्त्यागः कारणं नान्यदस्ति

Mahabharata

Shanti Parva, Adhyaya 194, Verse 13

स्वेनात्मना चक्षुरिव प्रणेता; निशात्यये तमसा संवृतात्मा

ज्ञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीयम्

Mahabharata

Shanti Parva, Adhyaya 194, Verse 14

सर्पान्कुशाग्राणि तथोदपानं; ज्ञात्वा मनुष्याः परिवर्जयन्ति

अज्ञानतस्तत्र पतन्ति मूढा; ज्ञाने फलं पश्य यथा विशिष्टम्

Mahabharata

Shanti Parva, Adhyaya 194, Verse 15

कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो; यज्ञा यथोक्तास्त्वथ दक्षिणाश्च

अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति

Mahabharata

Shanti Parva, Adhyaya 194, Verse 16

गुणात्मकं कर्म वदन्ति वेदा;स्तस्मान्मन्त्रा मन्त्रमूलं हि कर्म

विधिर्विधेयं मनसोपपत्तिः; फलस्य भोक्ता तु यथा शरीरी

Mahabharata

Shanti Parva, Adhyaya 194, Verse 17

शब्दाश्च रूपाणि रसाश्च पुण्याः; स्पर्शाश्च गन्धाश्च शुभास्तथैव

नरो नसंस्थानगतः प्रभुः स्या;देतत्फलं सिध्यति कर्मलोके

Mahabharata

Shanti Parva, Adhyaya 194, Verse 18

यद्यच्छरीरेण करोति कर्म; शरीरयुक्तः समुपाश्नुते तत्

शरीरमेवायतनं सुखस्य; दुःखस्य चाप्यायतनं शरीरम्

Mahabharata

Shanti Parva, Adhyaya 194, Verse 19

वाचा तु यत्कर्म करोति किंचि;द्वाचैव सर्वं समुपाश्नुते तत्

मनस्तु यत्कर्म करोति किंचि;न्मनःस्थ एवायमुपाश्नुते तत्

Mahabharata

Shanti Parva, Adhyaya 194, Verse 20

यथागुणं कर्मगणं फलार्थी; करोत्ययं कर्मफले निविष्टः

तथा तथायं गुणसंप्रयुक्तः; शुभाशुभं कर्मफलं भुनक्ति

Mahabharata

Shanti Parva, Adhyaya 194, Verse 21

मत्स्यो यथा स्रोत इवाभिपाती; तथा कृतं पूर्वमुपैति कर्म

शुभे त्वसौ तुष्यति दुष्कृते तु; न तुष्यते वै परमः शरीरी

Mahabharata

Shanti Parva, Adhyaya 194, Verse 22

यतो जगत्सर्वमिदं प्रसूतं; ज्ञात्वात्मवन्तो व्यतियान्ति यत्तत्

यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यमानं शृणु मे परं यत्

Mahabharata

Shanti Parva, Adhyaya 194, Verse 23

रसैर्वियुक्तं विविधैश्च गन्धै;रशब्दमस्पर्शमरूपवच्च

अग्राह्यमव्यक्तमवर्णमेकं; पञ्चप्रकारं ससृजे प्रजानाम्

Mahabharata

Shanti Parva, Adhyaya 194, Verse 24

न स्त्री पुमान्वापि नपुंसकं च; न सन्न चासत्सदसच्च तन्न

पश्यन्ति यद्ब्रह्मविदो मनुष्या;स्तदक्षरं न क्षरतीति विद्धि