Shanti Parva, Adhyaya 193, Verse 1
किमुत्तरं तदा तौ स्म चक्रतुस्तेन भाषिते
ब्राह्मणो वाथ वा राजा तन्मे ब्रूहि पितामह
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
किमुत्तरं तदा तौ स्म चक्रतुस्तेन भाषिते
ब्राह्मणो वाथ वा राजा तन्मे ब्रूहि पितामह
अथ वा तौ गतौ तत्र यदेतत्कीर्तितं त्वया
संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः
तथेत्येवं प्रतिश्रुत्य धर्मं संपूज्य चाभिभो
यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः
पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः
सर्वान्संपूज्य शिरसा राजानं सोऽब्रवीद्वचः
फलेनानेन संयुक्तो राजर्षे गच्छ पुण्यताम्
भवता चाभ्यनुज्ञातो जपेयं भूय एव हि
वरश्च मम पूर्वं हि देव्या दत्तो महाबल
श्रद्धा ते जपतो नित्यं भवितेति विशां पते
यद्येवमफला सिद्धिः श्रद्धा च जपितुं तव
गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि
कृतः प्रयत्नः सुमहान्सर्वेषां संनिधाविह
सह तुल्यफलौ चावां गच्छावो यत्र नौ गतिः
व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः
सह देवैरुपययौ लोकपालैस्तथैव च
साध्या विश्वेऽथ मरुतो ज्योतींषि सुमहान्ति च
नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च
तपांसि संयोगविधिर्वेदाः स्तोभाः सरस्वती
नारदः पर्वतश्चैव विश्वावसुर्हहा हुहूः
गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः
नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः
विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत्
अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि चाभिभो
पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम्
ननृतुश्चाप्सरःसंघास्तत्र तत्र समन्ततः
अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत्
संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप
अथ तौ सहितौ राजन्नन्योन्येन विधानतः
विषयप्रतिसंहारमुभावेव प्रचक्रतुः
प्राणापानौ तथोदानं समानं व्यानमेव च
एवं तान्मनसि स्थाप्य दधतुः प्राणयोर्मनः
उपस्थितकृतौ तत्र नासिकाग्रमधो भ्रुवौ
कुङ्कुण्यां चैव मनसा शनैर्धारयतः स्म तौ
निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ
जितासनौ तथाधाय मूर्धन्यात्मानमेव च
तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः
ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा
हाहाकारस्ततो दिक्षु सर्वासु सुमहानभूत्
तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा
ततः स्वागतमित्याह तत्तेजः स पितामहः
प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशां पते
भूयश्चैवापरं प्राह वचनं मधुरं स्म सः
जापकैस्तुल्यफलता योगानां नात्र संशयः
योगस्य तावदेतेभ्यः फलं प्रत्यक्षदर्शनम्
जापकानां विशिष्टं तु प्रत्युत्थानं समाधिकम्
उष्यतां मयि चेत्युक्त्वाचेतयत्स ततः पुनः
अथास्य प्रविवेशास्यं ब्राह्मणो विगतज्वरः
राजाप्येतेन विधिना भगवन्तं पितामहम्
यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा
स्वयंभुवमथो देवा अभिवाद्य ततोऽब्रुवन्
जापकार्थमयं यत्नस्तदर्थं वयमागताः
कृतपूजाविमौ तुल्यं त्वया तुल्यफलाविमौ
योगजापकयोर्दृष्टं फलं सुमहदद्य वै
सर्वाँल्लोकानतीत्यैतौ गच्छेतां यत्र वाञ्छितम्
महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम्
तावप्येतेन विधिना गच्छेतां मत्सलोकताम्
यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः
विधिनानेन देहान्ते मम लोकानवाप्नुयात्
गम्यतां साधयिष्यामि यथास्थानानि सिद्धये
इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत
आमन्त्र्य तं ततो देवा ययुः स्वं स्वं निवेशनम्