Mahabharata

Shanti Parva, Adhyaya 192

Containing 127 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 192, Verse 1

कालमृत्युयमानां च ब्राह्मणस्य च सत्तम

विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति

Mahabharata

Shanti Parva, Adhyaya 192, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च

Mahabharata

Shanti Parva, Adhyaya 192, Verse 3

कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे

यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत्

Mahabharata

Shanti Parva, Adhyaya 192, Verse 4

ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः

षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः

Mahabharata

Shanti Parva, Adhyaya 192, Verse 5

तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च

वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः

Mahabharata

Shanti Parva, Adhyaya 192, Verse 6

सोऽन्त्यं ब्राह्मं तपस्तेपे संहितां संयतो जपन्

तस्य वर्षसहस्रं तु नियमेन तथा गतम्

Mahabharata

Shanti Parva, Adhyaya 192, Verse 7

स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल

जप्यमावर्तयंस्तूष्णीं न च तां किंचिदब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 192, Verse 8

तस्यानुकम्पया देवी प्रीता समभवत्तदा

वेदमाता ततस्तस्य तज्जप्यं समपूजयत्

Mahabharata

Shanti Parva, Adhyaya 192, Verse 9

समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तथा

पपात देव्या धर्मात्मा वचनं चेदमब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 192, Verse 10

दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम

यदि वापि प्रसन्नासि जप्ये मे रमतां मनः

Mahabharata

Shanti Parva, Adhyaya 192, Verse 11

किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते

प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति

Mahabharata

Shanti Parva, Adhyaya 192, Verse 12

इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित्

जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः

Mahabharata

Shanti Parva, Adhyaya 192, Verse 13

मनसश्च समाधिर्मे वर्धेताहरहः शुभे

तत्तथेति ततो देवी मधुरं प्रत्यभाषत

Mahabharata

Shanti Parva, Adhyaya 192, Verse 14

इदं चैवापरं प्राह देवी तत्प्रियकाम्यया

निरयं नैव यातासि यत्र याता द्विजर्षभाः

Mahabharata

Shanti Parva, Adhyaya 192, Verse 15

यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम्

साधये भविता चैतद्यत्त्वयाहमिहार्थिता

Mahabharata

Shanti Parva, Adhyaya 192, Verse 16

नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति

कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम्

भविता च विवादोऽत्र तव तेषां च धर्मतः

Mahabharata

Shanti Parva, Adhyaya 192, Verse 17

एवमुक्त्वा भगवती जगाम भवनं स्वकम्

ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तदा

Mahabharata

Shanti Parva, Adhyaya 192, Verse 18

समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः

साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम्

Mahabharata

Shanti Parva, Adhyaya 192, Verse 19

द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः

जप्यस्य च फलं यत्ते संप्राप्तं तच्च मे शृणु

Mahabharata

Shanti Parva, Adhyaya 192, Verse 20

जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः

देवानां निरयान्साधो सर्वानुत्क्रम्य यास्यसि

Mahabharata

Shanti Parva, Adhyaya 192, Verse 21

प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान्

त्यक्त्वात्मनः शरीरं च ततो लोकानवाप्स्यसि

Mahabharata

Shanti Parva, Adhyaya 192, Verse 22

कृतं लोकैर्हि मे धर्म गच्छ च त्वं यथासुखम्

बहुदुःखसुखं देहं नोत्सृजेयमहं विभो

Mahabharata

Shanti Parva, Adhyaya 192, Verse 23

अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुंगव

स्वर्ग आरोह्यतां विप्र किं वा ते रोचतेऽनघ

Mahabharata

Shanti Parva, Adhyaya 192, Verse 24

न रोचये स्वर्गवासं विना देहादहं विभो

गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना

Mahabharata

Shanti Parva, Adhyaya 192, Verse 25

अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव

गच्छ लोकानरजसो यत्र गत्वा न शोचसि

Mahabharata

Shanti Parva, Adhyaya 192, Verse 26

रमे जपन्महाभाग कृतं लोकैः सनातनैः

सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो

Mahabharata

Shanti Parva, Adhyaya 192, Verse 27

यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज

एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः

Mahabharata

Shanti Parva, Adhyaya 192, Verse 28

अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो

ब्राह्मणं तं महाभागमुपागम्येदमब्रुवन्

Mahabharata

Shanti Parva, Adhyaya 192, Verse 29

तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च

फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे

Mahabharata

Shanti Parva, Adhyaya 192, Verse 30

यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम्

कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः