Mahabharata

Shanti Parva, Adhyaya 191

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 191, Verse 1

कीदृशो जापको याति निरयं वर्णयस्व मे

कौतूहलं हि मे जातं तद्भवान्वक्तुमर्हति

Mahabharata

Shanti Parva, Adhyaya 191, Verse 2

धर्मस्यांशः प्रसूतोऽसि धर्मिष्ठोऽसि स्वभावतः

धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनघ

Mahabharata

Shanti Parva, Adhyaya 191, Verse 3

अमूनि यानि स्थानानि देवानां परमात्मनाम्

नानासंस्थानवर्णानि नानारूपफलानि च

Mahabharata

Shanti Parva, Adhyaya 191, Verse 4

दिव्यानि कामचारीणि विमानानि सभास्तथा

आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः

Mahabharata

Shanti Parva, Adhyaya 191, Verse 5

चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः

मरुतां विश्वदेवानां साध्यानामश्विनोरपि

Mahabharata

Shanti Parva, Adhyaya 191, Verse 6

रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम्

एते वै निरयास्तात स्थानस्य परमात्मनः

Mahabharata

Shanti Parva, Adhyaya 191, Verse 7

अभयं चानिमित्तं च न च क्लेशभयावृतम्

द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च

Mahabharata

Shanti Parva, Adhyaya 191, Verse 8

चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम्

अप्रहर्षमनानन्दमशोकं विगतक्लमम्

Mahabharata

Shanti Parva, Adhyaya 191, Verse 9

कालः संपच्यते तत्र न कालस्तत्र वै प्रभुः

स कालस्य प्रभू राजन्स्वर्गस्यापि तथेश्वरः

Mahabharata

Shanti Parva, Adhyaya 191, Verse 10

आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति

ईदृशं परमं स्थानं निरयास्ते च तादृशाः

Mahabharata

Shanti Parva, Adhyaya 191, Verse 11

एते ते निरयाः प्रोक्ताः सर्व एव यथातथम्

तस्य स्थानवरस्येह सर्वे निरयसंज्ञिताः