Adi Parva, Adhyaya 219, Verse 1
तथा शैलनिपातेन भीषिताः खाण्डवालयाः
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा शैलनिपातेन भीषिताः खाण्डवालयाः
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा
समुद्विग्ना विससृपुस्तथान्या भूतजातयः
तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ
उत्पातनादशब्देन संत्रासित इवाभवन्
स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः
तेन ता जातयः क्षुद्राः सदानवनिशाचराः
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात्
अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः
वसारुधिरसंपृक्ताः संध्यायामिव तोयदाः
पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत
क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः
हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः
तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा
समेतानां च देवानां दानवानां च सर्वशः
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे
तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः
नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः
शतक्रतुश्च संप्रेक्ष्य विमुखान्देवतागणान्
बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ
निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी
शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना
न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ
न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ
वासुदेवार्जुनौ शक्र निबोधेदं वचो मम
नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ
पूजनीयतमावेतावपि सर्वैः सुरासुरैः
सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम्
इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः
कोपामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः
त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम्
देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः
देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ
निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा
स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान्
व्यधमच्छरसंपातैः प्राणिनः खाण्डवालयान्
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः
संछिद्यमानमिषुभिरस्यता सव्यसाचिना
नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम्
निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम्
शतेनैकं च विव्याध शतं चैकेन पत्रिणा
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव
न चालभन्त ते शर्म रोधःसु विषमेषु च
पितृदेवनिवासेषु संतापश्चाप्यजायत
भूतसंघसहस्राश्च दीनाश्चक्रुर्महास्वनम्
रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः
तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः
न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम्
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः
एकायनगता येऽपि निष्पतन्त्यत्र केचन
राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः