Mahabharata

Shanti Parva, Adhyaya 189

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 189, Verse 1

चातुराश्रम्यमुक्तं ते राजधर्मास्तथैव च

नानाश्रयाश्च बहव इतिहासाः पृथग्विधाः

Mahabharata

Shanti Parva, Adhyaya 189, Verse 2

श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते

संदेहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति

Mahabharata

Shanti Parva, Adhyaya 189, Verse 3

जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत

किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः

Mahabharata

Shanti Parva, Adhyaya 189, Verse 4

जपस्य च विधिं कृत्स्नं वक्तुमर्हसि मेऽनघ

जापका इति किं चैतत्सांख्ययोगक्रियाविधिः

Mahabharata

Shanti Parva, Adhyaya 189, Verse 5

किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते

एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः

Mahabharata

Shanti Parva, Adhyaya 189, Verse 6

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

यमस्य यत्पुरा वृत्तं कालस्य ब्राह्मणस्य च

Mahabharata

Shanti Parva, Adhyaya 189, Verse 7

संन्यास एव वेदान्ते वर्तते जपनं प्रति

वेदवादाभिनिर्वृत्ता शान्तिर्ब्रह्मण्यवस्थितौ

मार्गौ तावप्युभावेतौ संश्रितौ न च संश्रितौ

Mahabharata

Shanti Parva, Adhyaya 189, Verse 8

यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते

मनःसमाधिरत्रापि तथेन्द्रियजयः स्मृतः

Mahabharata

Shanti Parva, Adhyaya 189, Verse 9

सत्यमग्निपरीचारो विविक्तानां च सेवनम्

ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम्

Mahabharata

Shanti Parva, Adhyaya 189, Verse 10

विषयप्रतिसंहारो मितजल्पस्तथा शमः

एष प्रवृत्तको धर्मो निवृत्तकमथो शृणु

Mahabharata

Shanti Parva, Adhyaya 189, Verse 11

यथा निवर्तते कर्म जपतो ब्रह्मचारिणः

एतत्सर्वमशेषेण यथोक्तं परिवर्जयेत्

त्रिविधं मार्गमासाद्य व्यक्ताव्यक्तमनाश्रयम्

Mahabharata

Shanti Parva, Adhyaya 189, Verse 12

कुशोच्चयनिषण्णः सन्कुशहस्तः कुशैः शिखी

चीरैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा

Mahabharata

Shanti Parva, Adhyaya 189, Verse 13

विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत्

साम्यमुत्पाद्य मनसो मनस्येव मनो दधत्

Mahabharata

Shanti Parva, Adhyaya 189, Verse 14

तद्धिया ध्यायति ब्रह्म जपन्वै संहितां हिताम्

संन्यस्यत्यथ वा तां वै समाधौ पर्यवस्थितः

Mahabharata

Shanti Parva, Adhyaya 189, Verse 15

ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात्

शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान्

Mahabharata

Shanti Parva, Adhyaya 189, Verse 16

अरागमोहो निर्द्वंद्वो न शोचति न सज्जते

न कर्ताकरणीयानां न कार्याणामिति स्थितिः

Mahabharata

Shanti Parva, Adhyaya 189, Verse 17

न चाहंकारयोगेन मनः प्रस्थापयेत्क्वचित्

न चात्मग्रहणे युक्तो नावमानी न चाक्रियः

Mahabharata

Shanti Parva, Adhyaya 189, Verse 18

ध्यानक्रियापरो युक्तो ध्यानवान्ध्याननिश्चयः

ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात्

Mahabharata

Shanti Parva, Adhyaya 189, Verse 19

स वै तस्यामवस्थायां सर्वत्यागकृतः सुखी

निरीहस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम्

Mahabharata

Shanti Parva, Adhyaya 189, Verse 20

अथ वा नेच्छते तत्र ब्रह्मकायनिषेवणम्

उत्क्रामति च मार्गस्थो नैव क्वचन जायते

Mahabharata

Shanti Parva, Adhyaya 189, Verse 21

आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः

अमृतं विरजःशुद्धमात्मानं प्रतिपद्यते