Shanti Parva, Adhyaya 188, Verse 1
हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम्
यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम्
यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः
यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः
महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः
नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः
जन्मदोषपरिक्षीणाः स्वभावे पर्यवस्थिताः
निर्द्वंद्वा नित्यसत्त्वस्था विमुक्ता नित्यमाश्रिताः
असङ्गीन्यविवादीनि मनःशान्तिकराणि च
तत्र स्वाध्यायसंश्लिष्टमेकाग्रं धारयेन्मनः
पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः
शब्दं न विन्देच्छ्रोत्रेण स्पर्शं त्वचा न वेदयेत्
रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा
घ्रेयाण्यपि च सर्वाणि जह्याद्ध्यानेन योगवित्
पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान्
ततो मनसि संसज्य पञ्चवर्गं विचक्षणः
समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः
विसंचारि निरालम्बं पञ्चद्वारं चलाचलम्
पूर्वे ध्यानपथे धीरः समादध्यान्मनोऽन्तरम्
इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम्
एष ध्यानपथः पूर्वो मया समनुवर्णितः
तस्य तत्पूर्वसंरुद्धं मनःषष्ठमनन्तरम्
स्फुरिष्यति समुद्भ्रान्तं विद्युदम्बुधरे यथा
जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः
एवमेवास्य तच्चित्तं भवति ध्यानवर्त्मनि
समाहितं क्षणं किंचिद्ध्यानवर्त्मनि तिष्ठति
पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत्
अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः
समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित्
विचारश्च वितर्कश्च विवेकश्चोपजायते
मुनेः समादधानस्य प्रथमं ध्यानमादितः
मनसा क्लिश्यमानस्तु समाधानं च कारयेत्
न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम्
पांसुभस्मकरीषाणां यथा वै राशयश्चिताः
सहसा वारिणा सिक्ता न यान्ति परिभावनाम्
किंचित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम्
क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम्
एवमेवेन्द्रियग्रामं शनैः संपरिभावयेत्
संहरेत्क्रमशश्चैव स सम्यक्प्रशमिष्यति
स्वयमेव मनश्चैव पञ्चवर्गश्च भारत
पूर्वं ध्यानपथं प्राप्य नित्ययोगेन शाम्यति
न तत्पुरुषकारेण न च दैवेन केनचित्
सुखमेष्यति तत्तस्य यदेवं संयतात्मनः
सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि
गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम्