Shanti Parva, Adhyaya 187, Verse 1
अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते
यदध्यात्मं यतश्चैतत्तन्मे ब्रूहि पितामह
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते
यदध्यात्मं यतश्चैतत्तन्मे ब्रूहि पितामह
अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि
तद्व्याख्यास्यामि ते तात श्रेयस्करतरं सुखम्
यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति
फललाभश्च सद्यः स्यात्सर्वभूतहितं च तत्
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ
ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः
महाभूतानि भूतेषु सागरस्योर्मयो यथा
प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः
तद्वद्भूतानि भूतात्मा सृष्ट्वा संहरते पुनः
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
अकरोत्तेषु वैषम्यं तत्तु जीवोऽनु पश्यति
शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम्
वायोस्त्वक्स्पर्शचेष्टाश्च वागित्येतच्चतुष्टयम्
रूपं चक्षुस्तथा पक्तिस्त्रिविधं तेज उच्यते
रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः
घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास्त्रयः
महाभूतानि पञ्चैव षष्ठं तु मन उच्यते
इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत
सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः
चक्षुरालोकनायैव संशयं कुरुते मनः
बुद्धिरध्यवसायाय क्षेत्रज्ञः साक्षिवत्स्थितः
ऊर्ध्वं पादतलाभ्यां यदर्वागूर्ध्वं च पश्यति
एतेन सर्वमेवेदं विद्ध्यभिव्याप्तमन्तरम्
पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः
तमो रजश्च सत्त्वं च विद्धि भावांस्तदाश्रयान्
एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम्
समवेक्ष्य शनैश्चैव लभते शममुत्तमम्
गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम्
प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा
येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते
जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया
त्वचा स्पृशति च स्पर्शान्बुद्धिर्विक्रियतेऽसकृत्
येन संकल्पयत्यर्थं किंचिद्भवति तन्मनः
अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा
पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति
पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते
कदाचिल्लभते प्रीतिं कदाचिदनुशोचति
न सुखेन न दुःखेन कदाचिदपि वर्तते
एवं नराणां मनसि त्रिषु भावेष्ववस्थिता
सेयं भावात्मिका भावांस्त्रीनेतान्नातिवर्तते
सरितां सागरो भर्ता महावेलामिवोर्मिमान्
अतिभावगता बुद्धिर्भावे मनसि वर्तते
प्रवर्तमानं हि रजस्तद्भावमनुवर्तते
इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा
प्रीतिः सत्त्वं रजः शोकस्तमो मोहश्च ते त्रयः
ये ये च भावा लोकेऽस्मिन्सर्वेष्वेतेषु ते त्रिषु
इति बुद्धिगतिः सर्वा व्याख्याता तव भारत
इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता
सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा
त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते
सात्त्विकी राजसी चैव तामसी चेति भारत
सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः
तमोगुणेन संयुक्तौ भवतोऽव्यावहारिकौ
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्
वर्तते सात्त्विको भाव इत्यवेक्षेत तत्तदा