Mahabharata

Shanti Parva, Adhyaya 186

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 186, Verse 1

आचारस्य विधिं तात प्रोच्यमानं त्वयानघ

श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः

Mahabharata

Shanti Parva, Adhyaya 186, Verse 2

दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः

असन्तो ह्यभिविख्याताः सन्तश्चाचारलक्षणाः

Mahabharata

Shanti Parva, Adhyaya 186, Verse 3

पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः

राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः

Mahabharata

Shanti Parva, Adhyaya 186, Verse 4

शौचमावश्यकं कृत्वा देवतानां च तर्पणम्

धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 5

सूर्यं सदोपतिष्ठेत न स्वप्याद्भास्करोदये

सायं प्रातर्जपन्संध्यां तिष्ठेत्पूर्वां तथापराम्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 6

पञ्चार्द्रो भोजनं कुर्यात्प्राङ्मुखो मौनमास्थितः

न निन्देदन्नभक्ष्यांश्च स्वाद्वस्वादु च भक्षयेत्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 7

नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि

देवर्षिनारदप्रोक्तमेतदाचारलक्षणम्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 8

शुचिकाममनड्वाहं देवगोष्ठं चतुष्पथम्

ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 9

अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च

सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते

Mahabharata

Shanti Parva, Adhyaya 186, Verse 10

सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्

नान्तरा भोजनं दृष्टमुपवासी तथा भवेत्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 11

होमकाले तथा जुह्वन्नृतुकाले तथा व्रजन्

अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 12

अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम्

उपासीत जनः सत्यं सत्यं सन्त उपासते

Mahabharata

Shanti Parva, Adhyaya 186, Verse 13

यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात्

न भक्षयेद्वृथामांसं पृष्ठमांसं च वर्जयेत्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 14

स्वदेशे परदेशे वा अतिथिं नोपवासयेत्

काम्यं कर्मफलं लब्ध्वा गुरूणामुपपादयेत्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 15

गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम्

गुरूनभ्यर्च्य युज्यन्ते आयुषा यशसा श्रिया

Mahabharata

Shanti Parva, Adhyaya 186, Verse 16

नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम्

मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 17

तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः

सर्वमार्यकृतं शौचं वालसंस्पर्शनानि च

Mahabharata

Shanti Parva, Adhyaya 186, Verse 18

दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत्

सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 19

देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे

स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 20

पण्यानां शोभनं पण्यं कृषीणां बाद्यते कृषिः

बहुकारं च सस्यानां वाह्ये वाह्यं तथा गवाम्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 21

संपन्नं भोजने नित्यं पानीये तर्पणं तथा

सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा

Mahabharata

Shanti Parva, Adhyaya 186, Verse 22

श्मश्रुकर्मणि संप्राप्ते क्षुते स्नानेऽथ भोजने

व्याधितानां च सर्वेषामायुष्यमभिनन्दनम्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 23

प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत्

सुतस्त्रिया च शयनं सहभोज्यं च वर्जयेत्

Mahabharata

Shanti Parva, Adhyaya 186, Verse 24

त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत्

अवराणां समानानामुभयेषां न दुष्यति

Mahabharata

Shanti Parva, Adhyaya 186, Verse 25

हृदयं पापवृत्तानां पापमाख्याति वैकृतम्

ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने

Mahabharata

Shanti Parva, Adhyaya 186, Verse 26

ज्ञानपूर्वं कृतं पापं छादयन्त्यबहुश्रुताः

नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः

Mahabharata

Shanti Parva, Adhyaya 186, Verse 27

पापेन हि कृतं पापं पापमेवानुवर्तते

धार्मिकेण कृतो धर्मः कर्तारमनुवर्तते

Mahabharata

Shanti Parva, Adhyaya 186, Verse 28

पापं कृतं न स्मरतीह मूढो; विवर्तमानस्य तदेति कर्तुः

राहुर्यथा चन्द्रमुपैति चापि; तथाबुधं पापमुपैति कर्म

Mahabharata

Shanti Parva, Adhyaya 186, Verse 29

आशया संचितं द्रव्यं यत्काले नेह भुज्यते

तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते

Mahabharata

Shanti Parva, Adhyaya 186, Verse 30

मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः

तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत्