Shanti Parva, Adhyaya 184, Verse 1
दानस्य किं फलं प्राहुर्धर्मस्य चरितस्य च
तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
दानस्य किं फलं प्राहुर्धर्मस्य चरितस्य च
तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च
हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा
दानेन भोग इत्याहुस्तपसा सर्वमाप्नुयात्
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च
सद्भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्ठति
असत्सु दीयते यत्तु तद्दानमिह भुज्यते
यादृशं दीयते दानं तादृशं फलमाप्यते
किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम्
धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति
स्वधर्मचरणे युक्ता ये भवन्ति मनीषिणः
तेषां धर्मफलावाप्तिर्योऽन्यथा स विमुह्यति
यदेतच्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा
तेषां स्वे स्वे य आचारास्तान्मे वक्तुमिहार्हसि
गुरुं यस्तु समाराध्य द्विजो वेदमवाप्नुयात्
तस्य स्वर्गफलावाप्तिः सिध्यते चास्य मानसम्
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति
वत्सलाः सर्वभूतानां वाच्याः श्रोत्रसुखा गिरः
परिवादोपघातौ च पारुष्यं चात्र गर्हितम्
अवज्ञानमहंकारो दम्भश्चैव विगर्हितः
अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः
त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे
स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात्
उञ्छवृत्तिर्गृहस्थो यः स्वधर्मचरणे रतः
त्यक्तकामसुखारम्भस्तस्य स्वर्गो न दुर्लभः