Mahabharata

Shanti Parva, Adhyaya 183

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 183, Verse 1

सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः

सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति

Mahabharata

Shanti Parva, Adhyaya 183, Verse 2

अनृतं तमसो रूपं तमसा नीयते ह्यधः

तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम्

Mahabharata

Shanti Parva, Adhyaya 183, Verse 3

स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च

सत्यानृतात्तदुभयं प्राप्यते जगतीचरैः

Mahabharata

Shanti Parva, Adhyaya 183, Verse 4

तत्र त्वेवंविधा वृत्तिर्लोके सत्यानृता भवेत्

धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा

Mahabharata

Shanti Parva, Adhyaya 183, Verse 6

शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः

लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः

Mahabharata

Shanti Parva, Adhyaya 183, Verse 7

तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः

सुखं ह्यनित्यं भूतानामिह लोके परत्र च

Mahabharata

Shanti Parva, Adhyaya 183, Verse 8

राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते

तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम्

Mahabharata

Shanti Parva, Adhyaya 183, Verse 13

सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा

क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम्

Mahabharata

Shanti Parva, Adhyaya 183, Verse 14

नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम्

नरके दुःखमेवाहुः समं तु परमं पदम्

Mahabharata

Shanti Parva, Adhyaya 183, Verse 15

पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः

पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः

Mahabharata

Shanti Parva, Adhyaya 183, Verse 16

इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा

प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिरावृताः