Mahabharata

Shanti Parva, Adhyaya 182

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 182, Verse 1

ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम

वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर

Mahabharata

Shanti Parva, Adhyaya 182, Verse 2

जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः

वेदाध्ययनसंपन्नः षट्सु कर्मस्ववस्थितः

Mahabharata

Shanti Parva, Adhyaya 182, Verse 3

शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः

नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते

Mahabharata

Shanti Parva, Adhyaya 182, Verse 4

सत्यं दानं दमोऽद्रोह आनृशंस्यं क्षमा घृणा

तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः

Mahabharata

Shanti Parva, Adhyaya 182, Verse 5

क्षत्रजं सेवते कर्म वेदाध्ययनसंमतः

दानादानरतिर्यश्च स वै क्षत्रिय उच्यते

Mahabharata

Shanti Parva, Adhyaya 182, Verse 6

कृषिगोरक्ष्यवाणिज्यं यो विशत्यनिशं शुचिः

वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः

Mahabharata

Shanti Parva, Adhyaya 182, Verse 7

सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः

त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः

Mahabharata

Shanti Parva, Adhyaya 182, Verse 8

शूद्रे चैतद्भवेल्लक्ष्यं द्विजे चैतन्न विद्यते

न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः

Mahabharata

Shanti Parva, Adhyaya 182, Verse 9

सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः

एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः

Mahabharata

Shanti Parva, Adhyaya 182, Verse 10

नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात्

विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः

Mahabharata

Shanti Parva, Adhyaya 182, Verse 11

यस्य सर्वे समारम्भा निराशीर्बन्धनास्त्विह

त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्

Mahabharata

Shanti Parva, Adhyaya 182, Verse 12

अहिंस्रः सर्वभूतानां मैत्रायणगतश्चरेत्

अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः

Mahabharata

Shanti Parva, Adhyaya 182, Verse 13

परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः

अशोकं स्थानमातिष्ठेदिह चामुत्र चाभयम्

Mahabharata

Shanti Parva, Adhyaya 182, Verse 14

तपोनित्येन दान्तेन मुनिना संयतात्मना

अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना

Mahabharata

Shanti Parva, Adhyaya 182, Verse 15

इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः

अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्

Mahabharata

Shanti Parva, Adhyaya 182, Verse 16

मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत्

निर्वाणादेव निर्वाणो न च किंचिद्विचिन्तयेत्

सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति

Mahabharata

Shanti Parva, Adhyaya 182, Verse 17

शौचेन सततं युक्तस्तथाचारसमन्वितः

सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम्