Mahabharata

Shanti Parva, Adhyaya 180

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 180, Verse 1

न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च

याति देहान्तरं प्राणी शरीरं तु विशीर्यते

Mahabharata

Shanti Parva, Adhyaya 180, Verse 2

न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति

यथा समित्सु दग्धासु न प्रणश्यति पावकः

Mahabharata

Shanti Parva, Adhyaya 180, Verse 3

अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते

इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते

Mahabharata

Shanti Parva, Adhyaya 180, Verse 4

नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम्

गतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते

Mahabharata

Shanti Parva, Adhyaya 180, Verse 5

समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते

आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः

Mahabharata

Shanti Parva, Adhyaya 180, Verse 6

तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः

न गृह्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः

Mahabharata

Shanti Parva, Adhyaya 180, Verse 7

प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम्

वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात्

Mahabharata

Shanti Parva, Adhyaya 180, Verse 8

तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम्

पतितं याति भूमित्वमयनं तस्य हि क्षितिः

Mahabharata

Shanti Parva, Adhyaya 180, Verse 9

जङ्गमानां हि सर्वेषां स्थावराणां तथैव च

आकाशं पवनोऽभ्येति ज्योतिस्तमनुगच्छति

तत्र त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम्

Mahabharata

Shanti Parva, Adhyaya 180, Verse 10

यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः

अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः

Mahabharata

Shanti Parva, Adhyaya 180, Verse 11

यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु

जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ

Mahabharata

Shanti Parva, Adhyaya 180, Verse 12

पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते

शरीरे प्राणिनां जीवं ज्ञातुमिच्छामि यादृशम्

Mahabharata

Shanti Parva, Adhyaya 180, Verse 13

मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये

भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते

Mahabharata

Shanti Parva, Adhyaya 180, Verse 14

यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम्

शारीरे मानसे दुःखे कस्तां वेदयते रुजम्

Mahabharata

Shanti Parva, Adhyaya 180, Verse 15

शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत्

महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः

Mahabharata

Shanti Parva, Adhyaya 180, Verse 16

सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा

मनसि व्याकुले तद्धि पश्यन्नपि न पश्यति

Mahabharata

Shanti Parva, Adhyaya 180, Verse 17

न पश्यति न च ब्रूते न शृणोति न जिघ्रति

न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः

Mahabharata

Shanti Parva, Adhyaya 180, Verse 18

हृष्यति क्रुध्यति च कः शोचत्युद्विजते च कः

इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः

Mahabharata

Shanti Parva, Adhyaya 180, Verse 19

न पञ्चसाधारणमत्र किंचि;च्छरीरमेको वहतेऽन्तरात्मा

स वेत्ति गन्धांश्च रसाञ्श्रुतिं च; स्पर्शं च रूपं च गुणाश्च येऽन्ये

Mahabharata

Shanti Parva, Adhyaya 180, Verse 20

पञ्चात्मके पञ्चगुणप्रदर्शी; स सर्वगात्रानुगतोऽन्तरात्मा

स वेत्ति दुःखानि सुखानि चात्र; तद्विप्रयोगात्तु न वेत्ति देहः

Mahabharata

Shanti Parva, Adhyaya 180, Verse 21

यदा न रूपं न स्पर्शो नोष्मभावश्च पावके

तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति

Mahabharata

Shanti Parva, Adhyaya 180, Verse 22

अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम्

तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत्

Mahabharata

Shanti Parva, Adhyaya 180, Verse 23

आत्मानं तं विजानीहि सर्वलोकहितात्मकम्

तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे

Mahabharata

Shanti Parva, Adhyaya 180, Verse 24

क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम्

तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान्

Mahabharata

Shanti Parva, Adhyaya 180, Verse 25

सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम्

ततः परं क्षेत्रविदं वदन्ति; प्रावर्तयद्यो भुवनानि सप्त

Mahabharata

Shanti Parva, Adhyaya 180, Verse 26

न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्मृत इत्यबुद्धाः

जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः

Mahabharata

Shanti Parva, Adhyaya 180, Verse 27

एवं सर्वेषु भूतेषु गूढश्चरति संवृतः

दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः

Mahabharata

Shanti Parva, Adhyaya 180, Verse 28

तं पूर्वापररात्रेषु युञ्जानः सततं बुधः

लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि

Mahabharata

Shanti Parva, Adhyaya 180, Verse 29

चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम्

प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते

Mahabharata

Shanti Parva, Adhyaya 180, Verse 30

मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते

सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये