Adi Parva, Adhyaya 218, Verse 1
तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत्
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन्
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत्
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन्
शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः
छादयामास तद्वर्षमपकृष्य ततो वनात्
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः
संछाद्यमाने खगमैरस्यता सव्यसाचिना
तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः
दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा
अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली
स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात्
न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः
मोक्षयामास तं माता निगीर्य भुजगात्मजा
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते
ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी
तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम्
मोहयामास तत्कालमश्वसेनस्त्वमुच्यत
तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः
द्विधा त्रिधा च चिच्छेद खगतानेव भारत
शशाप तं च संक्रुद्धो बीभत्सुर्जिह्मगामिनम्
पावको वासुदेवश्च अप्रतिष्ठो भवेदिति
ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः
योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन्
देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम्
स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान्
वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान्
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम्
वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम्
जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः
क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः
सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम्
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः
प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत्
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहंकृताः
समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः
गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा
प्रहर्तुकामाः संपेतुराकाशात्कृष्णपाण्डवौ
तथैवोरगसंघाताः पाण्डवस्य समीपतः
उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः
तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान्
विवशाश्चापतन्दीप्तं देहाभावाय पावकम्
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः
कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः
तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम्
प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः
कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा
दैत्यदानवसंघानां चकार कदनं महत्
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा
वेलामिव समासाद्य व्यातिष्ठन्त महौजसः
ततः शक्रोऽभिसंक्रुद्धस्त्रिदशानां महेश्वरः
पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत्
अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत्
हतावेताविति प्राह सुरानसुरसूदनः
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम्
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा