Mahabharata

Shanti Parva, Adhyaya 179

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 179, Verse 1

यदि प्राणायते वायुर्वायुरेव विचेष्टते

श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः

Mahabharata

Shanti Parva, Adhyaya 179, Verse 2

यद्यूष्मभाव आग्नेयो वह्निना पच्यते यदि

अग्निर्जरयते चैव तस्माज्जीवो निरर्थकः

Mahabharata

Shanti Parva, Adhyaya 179, Verse 3

जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते

वायुरेव जहात्येनमूष्मभावश्च नश्यति

Mahabharata

Shanti Parva, Adhyaya 179, Verse 4

यदि वातोपमो जीवः संश्लेषो यदि वायुना

वायुमण्डलवद्दृश्यो गच्छेत्सह मरुद्गणैः

Mahabharata

Shanti Parva, Adhyaya 179, Verse 5

श्लेषो यदि च वातेन यदि तस्मात्प्रणश्यति

महार्णवविमुक्तत्वादन्यत्सलिलभाजनम्

Mahabharata

Shanti Parva, Adhyaya 179, Verse 6

कूपे वा सलिलं दद्यात्प्रदीपं वा हुताशने

प्रक्षिप्तं नश्यति क्षिप्रं यथा नश्यत्यसौ तथा

Mahabharata

Shanti Parva, Adhyaya 179, Verse 7

पञ्चसाधारणे ह्यस्मिञ्शरीरे जीवितं कुतः

येषामन्यतरत्यागाच्चतुर्णां नास्ति संग्रहः

Mahabharata

Shanti Parva, Adhyaya 179, Verse 8

नश्यन्त्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात्

नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात्

Mahabharata

Shanti Parva, Adhyaya 179, Verse 9

व्याधिव्रणपरिक्लेशैर्मेदिनी चैव शीर्यते

पीडितेऽन्यतरे ह्येषां संघातो याति पञ्चधा

Mahabharata

Shanti Parva, Adhyaya 179, Verse 10

तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति

किं वेदयति वा जीवः किं शृणोति ब्रवीति वा

Mahabharata

Shanti Parva, Adhyaya 179, Verse 11

एषा गौः परलोकस्थं तारयिष्यति मामिति

यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति

Mahabharata

Shanti Parva, Adhyaya 179, Verse 12

गौश्च प्रतिग्रहीता च दाता चैव समं यदा

इहैव विलयं यान्ति कुतस्तेषां समागमः

Mahabharata

Shanti Parva, Adhyaya 179, Verse 13

विहगैरुपयुक्तस्य शैलाग्रात्पतितस्य वा

अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः

Mahabharata

Shanti Parva, Adhyaya 179, Verse 14

छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति

बीजान्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति

Mahabharata

Shanti Parva, Adhyaya 179, Verse 15

बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते

मृता मृताः प्रणश्यन्ति बीजाद्बीजं प्रवर्तते