Shanti Parva, Adhyaya 179, Verse 1
यदि प्राणायते वायुर्वायुरेव विचेष्टते
श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
यदि प्राणायते वायुर्वायुरेव विचेष्टते
श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः
यद्यूष्मभाव आग्नेयो वह्निना पच्यते यदि
अग्निर्जरयते चैव तस्माज्जीवो निरर्थकः
जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते
वायुरेव जहात्येनमूष्मभावश्च नश्यति
यदि वातोपमो जीवः संश्लेषो यदि वायुना
वायुमण्डलवद्दृश्यो गच्छेत्सह मरुद्गणैः
श्लेषो यदि च वातेन यदि तस्मात्प्रणश्यति
महार्णवविमुक्तत्वादन्यत्सलिलभाजनम्
कूपे वा सलिलं दद्यात्प्रदीपं वा हुताशने
प्रक्षिप्तं नश्यति क्षिप्रं यथा नश्यत्यसौ तथा
पञ्चसाधारणे ह्यस्मिञ्शरीरे जीवितं कुतः
येषामन्यतरत्यागाच्चतुर्णां नास्ति संग्रहः
नश्यन्त्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात्
नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात्
व्याधिव्रणपरिक्लेशैर्मेदिनी चैव शीर्यते
पीडितेऽन्यतरे ह्येषां संघातो याति पञ्चधा
तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति
किं वेदयति वा जीवः किं शृणोति ब्रवीति वा
एषा गौः परलोकस्थं तारयिष्यति मामिति
यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति
गौश्च प्रतिग्रहीता च दाता चैव समं यदा
इहैव विलयं यान्ति कुतस्तेषां समागमः
विहगैरुपयुक्तस्य शैलाग्रात्पतितस्य वा
अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः
छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति
बीजान्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति
बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते
मृता मृताः प्रणश्यन्ति बीजाद्बीजं प्रवर्तते