Shanti Parva, Adhyaya 178, Verse 1
पार्थिवं धातुमाश्रित्य शारीरोऽग्निः कथं भवेत्
अवकाशविशेषेण कथं वर्तयतेऽनिलः
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
पार्थिवं धातुमाश्रित्य शारीरोऽग्निः कथं भवेत्
अवकाशविशेषेण कथं वर्तयतेऽनिलः
वायोर्गतिमहं ब्रह्मन्कीर्तयिष्यामि तेऽनघ
प्राणिनामनिलो देहान्यथा चेष्टयते बली
श्रितो मूर्धानमग्निस्तु शरीरं परिपालयन्
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः
मनो बुद्धिरहंकारो भूतानि विषयाश्च सः
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते
पृष्ठतश्च समानेन स्वां स्वां गतिमुपाश्रितः
वस्तिमूलं गुदं चैव पावकं च समाश्रितः
वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते
उदान इति तं प्राहुरध्यात्मविदुषो जनाः
संधिष्वपि च सर्वेषु संनिविष्टस्तथानिलः
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते
धातुष्वग्निस्तु विततः समानेन समीरितः
रसान्धातूंश्च दोषांश्च वर्तयन्नवतिष्ठति
अपानप्राणयोर्मध्ये प्राणापानसमाहितः
समन्वितः स्वधिष्ठानः सम्यक्पचति पावकः
आस्यं हि पायुसंयुक्तमन्ते स्याद्गुदसंज्ञितम्
स्रोतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम्
प्राणानां संनिपाताच्च संनिपातः प्रजायते
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम्
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम्
पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयः स्थितः
नाभिमध्ये शरीरस्य सर्वे प्राणाः समाहिताः
प्रसृता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा
वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः
एष मार्गोऽथ योगानां येन गच्छन्ति तत्पदम्
जितक्लमासना धीरा मूर्धन्यात्मानमादधुः
एवं सर्वेषु विहितः प्राणापानेषु देहिनाम्
तस्मिन्स्थितो नित्यमग्निः स्थाल्यामिव समाहितः