Shanti Parva, Adhyaya 177, Verse 1
एते ते धातवः पञ्च ब्रह्मा यानसृजत्पुरा
आवृता यैरिमे लोका महाभूताभिसंज्ञितैः
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
एते ते धातवः पञ्च ब्रह्मा यानसृजत्पुरा
आवृता यैरिमे लोका महाभूताभिसंज्ञितैः
यदासृजत्सहस्राणि भूतानां स महामतिः
पञ्चानामेव भूतत्वं कथं समुपपद्यते
अमितानां महाशब्दो यान्ति भूतानि संभवम्
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते
चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्
इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम्
श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः
पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः
अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः
वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः
न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः
न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः
अद्रवत्वादनग्नित्वादभौमत्वादवायुतः
आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम्
घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः
तेषां पुष्पफले व्यक्तिर्नित्यं समुपलभ्यते
ऊष्मतो ग्लानपर्णानां त्वक्फलं पुष्पमेव च
म्लायते चैव शीते न स्पर्शस्तेनात्र विद्यते
वाय्वग्न्यशनिनिष्पेषैः फलपुष्पं विशीर्यते
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः
वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः
पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः
पादैः सलिलपानं च व्याधीनामपि दर्शनम्
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे
वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्
तथा पवनसंयुक्तः पादैः पिबति पादपः
ग्रहणात्सुखदुःखस्य छिन्नस्य च विरोहणात्
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते
तेन तज्जलमादत्तं जरयत्यग्निमारुतौ
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते
जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते
त्वक्च मांसं तथास्थीनि मज्जा स्नायु च पञ्चमम्
इत्येतदिह संख्यातं शरीरे पृथिवीमयम्
तेजोऽग्निश्च तथा क्रोधश्चक्षुरूष्मा तथैव च
अग्निर्जरयते चापि पञ्चाग्नेयाः शरीरिणः
श्रोत्रं घ्राणमथास्यं च हृदयं कोष्ठमेव च
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा
प्राणात्प्रणीयते प्राणी व्यानाद्व्यायच्छते तथा
गच्छत्यपानोऽवाक्चैव समानो हृद्यवस्थितः
उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते
इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम्
भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान्
ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान्
इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च
एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः
शब्दः स्पर्शश्च रूपं च रसश्चापां गुणाः स्मृताः
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु
रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा
एष षड्विधविस्तारो रसो वारिमयः स्मृतः