Shanti Parva, Adhyaya 176, Verse 1
प्रजाविसर्गं विविधं कथं स सृजते प्रभुः
मेरुमध्ये स्थितो ब्रह्मा तद्ब्रूहि द्विजसत्तम
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रजाविसर्गं विविधं कथं स सृजते प्रभुः
मेरुमध्ये स्थितो ब्रह्मा तद्ब्रूहि द्विजसत्तम
प्रजाविसर्गं विविधं मानसो मनसासृजत्
संधुक्षणार्थं भूतानां सृष्टं प्रथमतो जलम्
यत्प्राणाः सर्वभूतानां वर्धन्ते येन च प्रजाः
परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम्
पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे
सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे पुनः
कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ
कथं च मेदिनी सृष्टेत्यत्र मे संशयो महान्
ब्रह्मकल्पे पुरा ब्रह्मन्ब्रह्मर्षीणां समागमे
लोकसंभवसंदेहः समुत्पन्नो महात्मनाम्
तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः
त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः
तेषां धर्ममयी वाणी सर्वेषां श्रोत्रमागमत्
दिव्या सरस्वती तत्र संबभूव नभस्तलात्
पुरा स्तिमितनिःशब्दमाकाशमचलोपमम्
नष्टचन्द्रार्कपवनं प्रसुप्तमिव संबभौ
ततः सलिलमुत्पन्नं तमसीवापरं तमः
तस्माच्च सलिलोत्पीडादुदतिष्ठत मारुतः
यथा भाजनमच्छिद्रं निःशब्दमिव लक्ष्यते
तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः
तथा सलिलसंरुद्धे नभसोऽन्ते निरन्तरे
भित्त्वार्णवतलं वायुः समुत्पतति घोषवान्
स एष चरते वायुरर्णवोत्पीडसंभवः
आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति
तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः
प्रादुर्भवत्यूर्ध्वशिखः कृत्वा वितिमिरं नभः
अग्निः पवनसंयुक्तः खात्समुत्पतते जलम्
सोऽग्निर्मारुतसंयोगाद्घनत्वमुपपद्यते
तस्याकाशे निपतितः स्नेहस्तिष्ठति योऽपरः
स संघातत्वमापन्नो भूमित्वमुपगच्छति
रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा
भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते