Mahabharata

Shanti Parva, Adhyaya 174

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 174, Verse 1

यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च

गुरूणां चापि शुश्रूषा तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 174, Verse 2

आत्मनानर्थयुक्तेन पापे निविशते मनः

स कर्म कलुषं कृत्वा क्लेशे महति धीयते

Mahabharata

Shanti Parva, Adhyaya 174, Verse 3

दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम्

मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः

Mahabharata

Shanti Parva, Adhyaya 174, Verse 4

उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम्

श्रद्दधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः

Mahabharata

Shanti Parva, Adhyaya 174, Verse 5

व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च

हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम्

Mahabharata

Shanti Parva, Adhyaya 174, Verse 6

प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः

क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम्

Mahabharata

Shanti Parva, Adhyaya 174, Verse 7

पुलाका इव धान्येषु पुत्तिका इव पक्षिषु

तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम्

Mahabharata

Shanti Parva, Adhyaya 174, Verse 8

सुशीघ्रमपि धावन्तं विधानमनुधावति

शेते सह शयानेन येन येन यथा कृतम्

Mahabharata

Shanti Parva, Adhyaya 174, Verse 9

उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति

करोति कुर्वतः कर्म छायेवानुविधीयते

Mahabharata

Shanti Parva, Adhyaya 174, Verse 10

येन येन यथा यद्यत्पुरा कर्म समाचितम्

तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना

Mahabharata

Shanti Parva, Adhyaya 174, Verse 11

स्वकर्मफलविक्षिप्तं विधानपरिरक्षितम्

भूतग्राममिमं कालः समन्तात्परिकर्षति

Mahabharata

Shanti Parva, Adhyaya 174, Verse 12

अचोद्यमानानि यथा पुष्पाणि च फलानि च

स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम्

Mahabharata

Shanti Parva, Adhyaya 174, Verse 13

संमानश्चावमानश्च लाभालाभौ क्षयोदयौ

प्रवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः

Mahabharata

Shanti Parva, Adhyaya 174, Verse 14

आत्मना विहितं दुःखमात्मना विहितं सुखम्

गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम्

Mahabharata

Shanti Parva, Adhyaya 174, Verse 15

बालो युवा च वृद्धश्च यत्करोति शुभाशुभम्

तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि

Mahabharata

Shanti Parva, Adhyaya 174, Verse 16

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्

तथा पूर्वकृतं कर्म कर्तारमनुगच्छति

Mahabharata

Shanti Parva, Adhyaya 174, Verse 17

समुन्नमग्रतो वस्त्रं पश्चाच्छुध्यति कर्मणा

उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम्

Mahabharata

Shanti Parva, Adhyaya 174, Verse 18

दीर्घकालेन तपसा सेवितेन तपोवने

धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः

Mahabharata

Shanti Parva, Adhyaya 174, Verse 19

शकुनीनामिवाकाशे मत्स्यानामिव चोदके

पदं यथा न दृश्येत तथा ज्ञानविदां गतिः

Mahabharata

Shanti Parva, Adhyaya 174, Verse 20

अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः

पेशलं चानुरूपं च कर्तव्यं हितमात्मनः