Mahabharata

Shanti Parva, Adhyaya 173

Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 173, Verse 1

बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह

नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे

Mahabharata

Shanti Parva, Adhyaya 173, Verse 2

प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः

प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम्

Mahabharata

Shanti Parva, Adhyaya 173, Verse 3

प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसंक्षये

प्रह्रादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम्

Mahabharata

Shanti Parva, Adhyaya 173, Verse 4

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 173, Verse 5

वैश्यः कश्चिदृषिं तात काश्यपं संशितव्रतम्

रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम्

Mahabharata

Shanti Parva, Adhyaya 173, Verse 6

आर्तः स पतितः क्रुद्धस्त्यक्त्वात्मानमथाब्रवीत्

मरिष्याम्यधनस्येह जीवितार्थो न विद्यते

Mahabharata

Shanti Parva, Adhyaya 173, Verse 7

तथा मुमूर्षुमासीनमकूजन्तमचेतसम्

इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम्

Mahabharata

Shanti Parva, Adhyaya 173, Verse 8

मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः

मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति

Mahabharata

Shanti Parva, Adhyaya 173, Verse 9

मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप

सुदुर्लभमवाप्यैतददोषान्मर्तुमिच्छसि

Mahabharata

Shanti Parva, Adhyaya 173, Verse 10

सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः

संतोषणीयरूपोऽसि लोभाद्यदभिमन्यसे

Mahabharata

Shanti Parva, Adhyaya 173, Verse 11

अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः

पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै

Mahabharata

Shanti Parva, Adhyaya 173, Verse 12

न पाणिलाभादधिको लाभः कश्चन विद्यते

अपाणित्वाद्वयं ब्रह्मन्कण्टकान्नोद्धरामहे

Mahabharata

Shanti Parva, Adhyaya 173, Verse 13

अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली

उद्धरन्ति कृमीनङ्गाद्दशमानान्कषन्ति च

Mahabharata

Shanti Parva, Adhyaya 173, Verse 14

हिमवर्षातपानां च परित्राणानि कुर्वते

चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते

Mahabharata

Shanti Parva, Adhyaya 173, Verse 15

अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च

उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते

Mahabharata

Shanti Parva, Adhyaya 173, Verse 16

ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः

सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने

Mahabharata

Shanti Parva, Adhyaya 173, Verse 17

दिष्ट्या त्वं न सृगालो वै न कृमिर्न च मूषकः

न सर्पो न च मण्डूको न चान्यः पापयोनिजः

Mahabharata

Shanti Parva, Adhyaya 173, Verse 18

एतावतापि लाभेन तोष्टुमर्हसि काश्यप

किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः

Mahabharata

Shanti Parva, Adhyaya 173, Verse 19

इमे मां कृमयोऽदन्ति तेषामुद्धरणाय मे

नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम

Mahabharata

Shanti Parva, Adhyaya 173, Verse 20

अकार्यमिति चैवेमं नात्मानं संत्यजाम्यहम्

नेतः पापीयसीं योनिं पतेयमपरामिति

Mahabharata

Shanti Parva, Adhyaya 173, Verse 21

मध्ये वै पापयोनीनां सार्गाली यामहं गतः

पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः

Mahabharata

Shanti Parva, Adhyaya 173, Verse 22

जात्यैवैके सुखतराः सन्त्यन्ये भृशदुःखिताः

नैकान्तसुखमेवेह क्वचित्पश्यामि कस्यचित्

Mahabharata

Shanti Parva, Adhyaya 173, Verse 23

मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम्

राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि

Mahabharata

Shanti Parva, Adhyaya 173, Verse 24

भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम्

देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति

Mahabharata

Shanti Parva, Adhyaya 173, Verse 25

न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति

संप्रज्वलति सा भूयः समिद्भिरिव पावकः

Mahabharata

Shanti Parva, Adhyaya 173, Verse 26

अस्त्येव त्वयि शोको वै हर्षश्चास्ति तथा त्वयि

सुखदुःखे तथा चोभे तत्र का परिदेवना

Mahabharata

Shanti Parva, Adhyaya 173, Verse 27

परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम्

मूलं रुन्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे

Mahabharata

Shanti Parva, Adhyaya 173, Verse 28

न खल्वप्यरसज्ञस्य कामः क्वचन जायते

संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते

Mahabharata

Shanti Parva, Adhyaya 173, Verse 29

न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम्

ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित्

Mahabharata

Shanti Parva, Adhyaya 173, Verse 30

यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप

येषामभुक्तपूर्वं ते तेषामस्मृतिरेव च