Shanti Parva, Adhyaya 171, Verse 1
ईहमानः समारम्भान्यदि नासादयेद्धनम्
धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात्
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
ईहमानः समारम्भान्यदि नासादयेद्धनम्
धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात्
सर्वसाम्यमनायासः सत्यवाक्यं च भारत
निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः
एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये
एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर
ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः
केनचिद्धनशेषेण क्रीतवान्दम्यगोयुगम्
सुसंबद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ
आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम्
तयोः संप्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः
उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना
म्रियमाणौ च संप्रेक्ष्य मङ्किस्तत्राब्रवीदिदम्
न चैवाविहितं शक्यं दक्षेणापीहितुं धनम्
युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता
कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः
इमं पश्यत संगत्या मम दैवमुपप्लवम्
उद्यम्योद्यम्य मे दम्यौ विषमेणेव गच्छति
उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः
मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम
शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम्
यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित्
अन्विष्यमाणं तदपि दैवमेवावतिष्ठते
तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने
अहो सम्यक्शुकेनोक्तं सर्वतः परिमुच्यता
प्रतिष्ठता महारण्यं जनकस्य निवेशनात्
यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत्
प्रापणात्सर्वकामानां परित्यागो विशिष्यते
नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश्चन
शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते
निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक
असकृच्चासि निकृतो न च निर्विद्यसे तनो
यदि नाहं विनाश्यस्ते यद्येवं रमसे मया
मा मां योजय लोभेन वृथा त्वं वित्तकामुक
संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः
कदा विमोक्ष्यसे मूढ धनेहां धनकामुक
अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव
किं नैव जातु पुरुषः परेषां प्रेष्यतामियात्
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन्
त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि
नूनं ते हृदयं काम वज्रसारमयं दृधम्
यदनर्थशताविष्टं शतधा न विदीर्यते
त्यजामि काम त्वां चैव यच्च किंचित्प्रियं तव
तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम्
काम जानामि ते मूलं संकल्पात्किल जायसे
न त्वां संकल्पयिष्यामि समूलो न भविष्यसि
ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी
लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा
परेत्य यो न लभते ततो दुःखतरं नु किम्
न च तुष्यति लब्धेन भूय एव च मार्गति
अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम्
मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि संत्यज
य इमं मामकं देहं भूतग्रामः समाश्रितः
स यात्वितो यथाकामं वसतां वा यथासुखम्
न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु
तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम्