Shanti Parva, Adhyaya 170, Verse 1
धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः
सुखदुःखागमस्तेषां कः कथं वा पितामह
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः
सुखदुःखागमस्तेषां कः कथं वा पितामह
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शम्याकेन विमुक्तेन गीतं शान्तिगतेन ह
अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमास्थितः
क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया
उत्पन्नमिह लोके वै जन्मप्रभृति मानवम्
विविधान्युपवर्तन्ते दुःखानि च सुखानि च
तयोरेकतरे मार्गे यद्येनमभिसंनयेत्
न सुखं प्राप्य संहृष्येन्न दुःखं प्राप्य संज्वरेत्
न वै चरसि यच्छ्रेय आत्मनो वा यदीहसे
अकामात्मापि हि सदा धुरमुद्यम्य चैव हि
अकिंचनः परिपतन्सुखमास्वादयिष्यसि
अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि
आकिंचन्यं सुखं लोके पथ्यं शिवमनामयम्
अनमित्रमथो ह्येतद्दुर्लभं सुलभं सताम्
अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः
अवेक्षमाणस्त्रीँल्लोकान्न तुल्यमुपलक्षये
आकिंचन्यं च राज्यं च तुलया समतोलयम्
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम्
आकिंचन्ये च राज्ये च विशेषः सुमहानयम्
नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा
नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः
प्रभवन्ति धनज्यानिनिर्मुक्तस्य निराशिषः
तं वै सदा कामचरमनुपस्तीर्णशायिनम्
बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः
धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः
तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः
निर्दशंश्चाधरोष्ठं च क्रुद्धो दारुणभाषिता
कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम्
श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम्
सा तस्य चित्तं हरति शारदाभ्रमिवानिलः
अथैनं रूपमानश्च धनमानश्च विन्दति
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः
इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रसिच्यते
स प्रसिक्तमना भोगान्विसृज्य पितृसंचितान्
परिक्षीणः परस्वानामादानं साधु मन्यते
तमतिक्रान्तमर्यादमाददानं ततस्ततः
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः
एवमेतानि दुःखानि तानि तानीह मानवम्
विविधान्युपवर्तन्ते गात्रसंस्पर्शजानि च
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत्
लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह
नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम्
नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव
इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम्
शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः