Mahabharata

Adi Parva, Adhyaya 217

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 217, Verse 1

तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ

दिक्षु सर्वासु भूतानां चक्राते कदनं महत्

Mahabharata

Adi Parva, Adhyaya 217, Verse 2

यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः

पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम्

Mahabharata

Adi Parva, Adhyaya 217, Verse 3

छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात्

आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ

Mahabharata

Adi Parva, Adhyaya 217, Verse 4

खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः

उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश

Mahabharata

Adi Parva, Adhyaya 217, Verse 5

दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे

स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः

Mahabharata

Adi Parva, Adhyaya 217, Verse 6

समालिङ्ग्य सुतानन्ये पितॄन्मातॄंस्तथापरे

त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः

Mahabharata

Adi Parva, Adhyaya 217, Verse 7

विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः

तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे

Mahabharata

Adi Parva, Adhyaya 217, Verse 8

दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले

तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः

Mahabharata

Adi Parva, Adhyaya 217, Verse 9

जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत

गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः

Mahabharata

Adi Parva, Adhyaya 217, Verse 10

शरीरैः संप्रदीप्तैश्च देहवन्त इवाग्नयः

अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसंक्षये

Mahabharata

Adi Parva, Adhyaya 217, Verse 11

तांस्तथोत्पततः पार्थः शरैः संछिद्य खण्डशः

दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि

Mahabharata

Adi Parva, Adhyaya 217, Verse 12

ते शराचितसर्वाङ्गा विनदन्तो महारवान्

ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः

Mahabharata

Adi Parva, Adhyaya 217, Verse 13

शरैरभ्याहतानां च दह्यतां च वनौकसाम्

विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः

Mahabharata

Adi Parva, Adhyaya 217, Verse 14

वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः

जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम्

Mahabharata

Adi Parva, Adhyaya 217, Verse 15

ततो जग्मुर्महात्मानः सर्व एव दिवौकसः

शरणं देवराजानं सहस्राक्षं पुरंदरम्

Mahabharata

Adi Parva, Adhyaya 217, Verse 16

किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना

कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर

Mahabharata

Adi Parva, Adhyaya 217, Verse 17

तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च

खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः

Mahabharata

Adi Parva, Adhyaya 217, Verse 18

महता मेघजालेन नानारूपेण वज्रभृत्

आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः

Mahabharata

Adi Parva, Adhyaya 217, Verse 19

ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः

अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति

Mahabharata

Adi Parva, Adhyaya 217, Verse 20

असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः

ख एव समशुष्यन्त न काश्चित्पावकं गताः

Mahabharata

Adi Parva, Adhyaya 217, Verse 21

ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा

पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु

Mahabharata

Adi Parva, Adhyaya 217, Verse 22

अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम्

बभूव तद्वनं घोरं स्तनयित्नुसघोषवत्