Mahabharata

Shanti Parva, Adhyaya 169

Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 169, Verse 1

अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे

किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 169, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

पितुः पुत्रेण संवादं तन्निबोध युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 169, Verse 3

द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै

बभूव पुत्रो मेधावी मेधावी नाम नामतः

Mahabharata

Shanti Parva, Adhyaya 169, Verse 4

सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम्

मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः

Mahabharata

Shanti Parva, Adhyaya 169, Verse 5

धीरः किं स्वित्तात कुर्यात्प्रजान;न्क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम्

पितस्तदाचक्ष्व यथार्थयोगं; ममानुपूर्व्या येन धर्मं चरेयम्

Mahabharata

Shanti Parva, Adhyaya 169, Verse 6

वेदानधीत्य ब्रह्मचर्येण पुत्र; पुत्रानिच्छेत्पावनार्थं पितॄणाम्

अग्नीनाधाय विधिवच्चेष्टयज्ञो; वनं प्रविश्याथ मुनिर्बुभूषेत्

Mahabharata

Shanti Parva, Adhyaya 169, Verse 7

एवमभ्याहते लोके समन्तात्परिवारिते

अमोघासु पतन्तीषु किं धीर इव भाषसे

Mahabharata

Shanti Parva, Adhyaya 169, Verse 8

कथमभ्याहतो लोकः केन वा परिवारितः

अमोघाः काः पतन्तीह किं नु भीषयसीव माम्

Mahabharata

Shanti Parva, Adhyaya 169, Verse 9

मृत्युनाभ्याहतो लोको जरया परिवारितः

अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे

Mahabharata

Shanti Parva, Adhyaya 169, Verse 10

यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह

सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन्

Mahabharata

Shanti Parva, Adhyaya 169, Verse 11

रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा

गाधोदके मत्स्य इव सुखं विन्देत कस्तदा

तदेव वन्ध्यं दिवसमिति विद्याद्विचक्षणः

Mahabharata

Shanti Parva, Adhyaya 169, Verse 12

अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम्

शष्पाणीव विचिन्वन्तमन्यत्रगतमानसम्

वृकीवोरणमासाद्य मृत्युरादाय गच्छति

Mahabharata

Shanti Parva, Adhyaya 169, Verse 13

अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम्

अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति

Mahabharata

Shanti Parva, Adhyaya 169, Verse 14

श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्

न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम्

को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते

Mahabharata

Shanti Parva, Adhyaya 169, Verse 15

युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम्

कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम्

Mahabharata

Shanti Parva, Adhyaya 169, Verse 16

मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः

कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति

Mahabharata

Shanti Parva, Adhyaya 169, Verse 17

तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम्

सुप्तं व्याघ्रं महौघो वा मृत्युरादाय गच्छति

Mahabharata

Shanti Parva, Adhyaya 169, Verse 18

संचिन्वानकमेवैकं कामानामवितृप्तकम्

व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति

Mahabharata

Shanti Parva, Adhyaya 169, Verse 19

इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम्

एवमीहासुखासक्तं कृतान्तः कुरुते वशे

Mahabharata

Shanti Parva, Adhyaya 169, Verse 20

कृतानां फलमप्राप्तं कर्मणां फलसङ्गिनम्

क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति

Mahabharata

Shanti Parva, Adhyaya 169, Verse 21

मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम्

अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि

Mahabharata

Shanti Parva, Adhyaya 169, Verse 22

जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम्

अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः

Mahabharata

Shanti Parva, Adhyaya 169, Verse 23

मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः

देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः

Mahabharata

Shanti Parva, Adhyaya 169, Verse 24

निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः

छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः

Mahabharata

Shanti Parva, Adhyaya 169, Verse 25

न हिंसयति यः प्राणान्मनोवाक्कायहेतुभिः

जीवितार्थापनयनैः कर्मभिर्न स बध्यते

Mahabharata

Shanti Parva, Adhyaya 169, Verse 26

न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते

ऋते सत्यमसंत्याज्यं सत्ये ह्यमृतमाश्रितम्

Mahabharata

Shanti Parva, Adhyaya 169, Verse 27

तस्मात्सत्यव्रताचारः सत्ययोगपरायणः

सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत्

Mahabharata

Shanti Parva, Adhyaya 169, Verse 28

अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्

मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम्

Mahabharata

Shanti Parva, Adhyaya 169, Verse 29

सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः

समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत्

Mahabharata

Shanti Parva, Adhyaya 169, Verse 30

शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः

वाङ्मनःकर्मयज्ञश्च भविष्याम्युदगायने