Shanti Parva, Adhyaya 168, Verse 1
धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया
यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम्
स तमेवाभिजानाति नान्यं भरतसत्तम
यथा यथा च पर्येति लोकतन्त्रमसारवत्
तथा तथा विरागोऽत्र जायते नात्र संशयः
एवं व्यवसिते लोके बहुदोषे युधिष्ठिर
आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः
पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम्
विषण्णवदनं दृष्ट्वा विप्रो वचनमब्रवीत्
किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि
यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम्
त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते
सर्वे तत्र गमिष्यामो यत एवागता वयम्
का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन
किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि
पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः
आत्मापि चायं न मम सर्वा वा पृथिवी मम
यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा
एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे
यथा काष्ठं च काष्ठं च समेयातां महोदधौ
समेत्य च व्यपेयातां तद्वद्भूतसमागमः
एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा
तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम्
अदर्शनादापतितः पुनश्चादर्शनं गतः
न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्
सुखात्संजायते दुःखमेवमेतत्पुनः पुनः
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम्
न नित्यं लभते दुःखं न नित्यं लभते सुखम्
नालं सुखाय सुहृदो नालं दुःखाय शत्रवः
न च प्रज्ञालमर्थानां न सुखानामलं धनम्
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः
बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम्
दुर्बलं बलवन्तं च भागिनं भजते सुखम्
धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च
पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः
ये च मूढतमा लोके ये च बुद्धेः परं गताः
ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः
अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे
अन्त्यप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः
ये तु बुद्धिसुखं प्राप्ता द्वंद्वातीता विमत्सराः
तान्नैवार्था न चानर्था व्यथयन्ति कदाचन
अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम्
तेऽतिवेलं प्रहृष्यन्ति संतापमुपयान्ति च
नित्यप्रमुदिता मूढा दिवि देवगणा इव
अवलेपेन महता परिदृब्धा विचेतसः
सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम्
भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे
सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम्
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः