Mahabharata

Shanti Parva, Adhyaya 164

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 164, Verse 1

गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा

कौतूहलान्वितो राजन्राजधर्माणमैक्षत

Mahabharata

Shanti Parva, Adhyaya 164, Verse 2

भोः कश्यपस्य पुत्रोऽहं माता दाक्षायणी च मे

अतिथिस्त्वं गुणोपेतः स्वागतं ते द्विजर्षभ

Mahabharata

Shanti Parva, Adhyaya 164, Verse 3

तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा

शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत्

Mahabharata

Shanti Parva, Adhyaya 164, Verse 4

भगीरथरथाक्रान्तान्देशान्गङ्गानिषेवितान्

ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत्

Mahabharata

Shanti Parva, Adhyaya 164, Verse 5

वह्निं चापि सुसंदीप्तं मीनांश्चैव सुपीवरान्

स गौतमायातिथये न्यवेदयत काश्यपः

Mahabharata

Shanti Parva, Adhyaya 164, Verse 6

भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः

क्लमापनयनार्थं स पक्षाभ्यामभ्यवीजयत्

Mahabharata

Shanti Parva, Adhyaya 164, Verse 7

ततो विश्रान्तमासीनं गोत्रप्रश्नमपृच्छत

सोऽब्रवीद्गौतमोऽस्मीति ब्राह्म नान्यदुदाहरत्

Mahabharata

Shanti Parva, Adhyaya 164, Verse 8

तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम्

गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम्

Mahabharata

Shanti Parva, Adhyaya 164, Verse 9

अथोपविष्टं शयने गौतमं बकराट्तदा

पप्रच्छ काश्यपो वाग्मी किमागमनकारणम्

Mahabharata

Shanti Parva, Adhyaya 164, Verse 10

ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते

समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत

Mahabharata

Shanti Parva, Adhyaya 164, Verse 11

तं काश्यपोऽब्रवीत्प्रीतो नोत्कण्ठां कर्तुमर्हसि

कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान्

Mahabharata

Shanti Parva, Adhyaya 164, Verse 12

चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा

पारंपर्यं तथा दैवं कर्म मित्रमिति प्रभो

Mahabharata

Shanti Parva, Adhyaya 164, Verse 13

प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च मम त्वयि

सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान्

Mahabharata

Shanti Parva, Adhyaya 164, Verse 14

ततः प्रभातसमये सुखं पृष्ट्वाब्रवीदिदम्

गच्छ सौम्य पथानेन कृतकृत्यो भविष्यसि

Mahabharata

Shanti Parva, Adhyaya 164, Verse 15

इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान्

विरूपाक्ष इति ख्यातः सखा मम महाबलः

Mahabharata

Shanti Parva, Adhyaya 164, Verse 16

तं गच्छ द्विजमुख्य त्वं मम वाक्यप्रचोदितः

कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः

Mahabharata

Shanti Parva, Adhyaya 164, Verse 17

इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः

फलान्यमृतकल्पानि भक्षयन्स्म यथेष्टतः

Mahabharata

Shanti Parva, Adhyaya 164, Verse 18

चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च

तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ

Mahabharata

Shanti Parva, Adhyaya 164, Verse 19

ततो मेरुव्रजं नाम नगरं शैलतोरणम्

शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा

Mahabharata

Shanti Parva, Adhyaya 164, Verse 20

विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः

प्रहितः सुहृदा राजन्प्रीयता वै प्रियातिथिः

Mahabharata

Shanti Parva, Adhyaya 164, Verse 21

ततः स राक्षसेन्द्रः स्वान्प्रेष्यानाह युधिष्ठिर

गौतमो नगरद्वाराच्छीघ्रमानीयतामिति

Mahabharata

Shanti Parva, Adhyaya 164, Verse 22

ततः पुरवरात्तस्मात्पुरुषाः श्वेतवेष्टनाः

गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन्

Mahabharata

Shanti Parva, Adhyaya 164, Verse 23

ते तमूचुर्महाराज प्रेष्या रक्षःपतेर्द्विजम्

त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति

Mahabharata

Shanti Parva, Adhyaya 164, Verse 24

राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः

स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम्

Mahabharata

Shanti Parva, Adhyaya 164, Verse 25

ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः

गौतमो नगरर्द्धिं तां पश्यन्परमविस्मितः

Mahabharata

Shanti Parva, Adhyaya 164, Verse 26

तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत्

दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा