Mahabharata

Shanti Parva, Adhyaya 163

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 163, Verse 1

तस्यां निशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे

निष्क्रम्य गौतमोऽगच्छत्समुद्रं प्रति भारत

Mahabharata

Shanti Parva, Adhyaya 163, Verse 2

सामुद्रकान्स वणिजस्ततोऽपश्यत्स्थितान्पथि

स तेन सार्थेन सह प्रययौ सागरं प्रति

Mahabharata

Shanti Parva, Adhyaya 163, Verse 3

स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे

मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत्

Mahabharata

Shanti Parva, Adhyaya 163, Verse 4

स कथंचित्ततस्तस्मात्सार्थान्मुक्तो द्विजस्तदा

कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम्

Mahabharata

Shanti Parva, Adhyaya 163, Verse 5

स सर्वतः परिभ्रष्टः सार्थाद्देशात्तथार्थतः

एकाकी व्यद्रवत्तत्र वने किंपुरुषो यथा

Mahabharata

Shanti Parva, Adhyaya 163, Verse 6

स पन्थानमथासाद्य समुद्राभिसरं तदा

आससाद वनं रम्यं महत्पुष्पितपादपम्

Mahabharata

Shanti Parva, Adhyaya 163, Verse 7

सर्वर्तुकैराम्रवनैः पुष्पितैरुपशोभितम्

नन्दनोद्देशसदृशं यक्षकिंनरसेवितम्

Mahabharata

Shanti Parva, Adhyaya 163, Verse 8

शालतालधवाश्वत्थत्वचागुरुवनैस्तथा

चन्दनस्य च मुख्यस्य पादपैरुपशोभितम्

गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु

Mahabharata

Shanti Parva, Adhyaya 163, Verse 9

समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै

मनुष्यवदनास्त्वन्ये भारुण्डा इति विश्रुताः

भूलिङ्गशकुनाश्चान्ये समुद्रं सर्वतोऽभवन्

Mahabharata

Shanti Parva, Adhyaya 163, Verse 10

स तान्यतिमनोज्ञानि विहंगाभिरुतानि वै

शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः

Mahabharata

Shanti Parva, Adhyaya 163, Verse 11

ततोऽपश्यत्सुरम्ये स सुवर्णसिकताचिते

देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे

Mahabharata

Shanti Parva, Adhyaya 163, Verse 12

श्रिया जुष्टं महावृक्षं न्यग्रोधं परिमण्डलम्

शाखाभिरनुरूपाभिर्भूषितं छत्रसंनिभम्

Mahabharata

Shanti Parva, Adhyaya 163, Verse 13

तस्य मूलं सुसंसिक्तं वरचन्दनवारिणा

दिव्यपुष्पान्वितं श्रीमत्पितामहसदोपमम्

Mahabharata

Shanti Parva, Adhyaya 163, Verse 14

तं दृष्ट्वा गौतमः प्रीतो मुनिकान्तमनुत्तमम्

मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम्

तमागम्य मुदा युक्तस्तस्याधस्तादुपाविशत्

Mahabharata

Shanti Parva, Adhyaya 163, Verse 15

तत्रासीनस्य कौरव्य गौतमस्य सुखः शिवः

पुष्पाणि समुपस्पृश्य प्रववावनिलः शुचिः

ह्लादयन्सर्वगात्राणि गौतमस्य तदा नृप

Mahabharata

Shanti Parva, Adhyaya 163, Verse 16

स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना

सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्यगात्

Mahabharata

Shanti Parva, Adhyaya 163, Verse 17

ततोऽस्तं भास्करे याते संध्याकाल उपस्थिते

आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः

Mahabharata

Shanti Parva, Adhyaya 163, Verse 18

नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा

बकराजो महाप्राज्ञः कश्यपस्यात्मसंभवः

Mahabharata

Shanti Parva, Adhyaya 163, Verse 19

राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि

देवकन्यासुतः श्रीमान्विद्वान्देवपतिप्रभः

Mahabharata

Shanti Parva, Adhyaya 163, Verse 20

मृष्टहाटकसंछन्नो भूषणैरर्कसंनिभैः

भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन्

Mahabharata

Shanti Parva, Adhyaya 163, Verse 21

तमागतं द्विजं दृष्ट्वा विस्मितो गौतमोऽभवत्

क्षुत्पिपासापरीतात्मा हिंसार्थी चाप्यवैक्षत

Mahabharata

Shanti Parva, Adhyaya 163, Verse 22

स्वागतं भवते विप्र दिष्ट्या प्राप्तोऽसि मे गृहम्

अस्तं च सविता यातः संध्येयं समुपस्थिता

Mahabharata

Shanti Parva, Adhyaya 163, Verse 23

मम त्वं निलयं प्राप्तः प्रियातिथिरनिन्दितः

पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा